कालागुरुप्रचरचन्दनचर्चिताङ्ग्यः
पुष्पावतंससुरभीकृतकेशपाशाः ।
श्रुत्वा ध्वनिं जलमुचां त्वरितं प्रदोषे
शय्यागृहं गुरुगृहात्प्रविशन्ति नार्यः ॥

अन्वयः AI कालागुरुप्रचुरचन्दनचर्चिताङ्ग्यः पुष्पावतंससुरभीकृतकेशपाशाः नार्यः जलमुचां ध्वनिं श्रुत्वा प्रदोषे गुरुगृहात् त्वरितं शय्यागृहं प्रविशन्ति।
Summary AI Women, their limbs smeared with black aloe and abundant sandalwood paste, their tresses made fragrant with floral ornaments, hear the rumbling of the clouds. At evening, they quickly leave the houses of their elders and enter their bedchambers.
सारांश AI काले अगरु और सुगंधित चंदन से लेपित अंगों वाली स्त्रियां, जिन्होंने फूलों के आभूषणों से अपने केशों को महकाया है, बादलों की गर्जना सुनकर संध्या के समय शीघ्र ही गुरुजनों के घरों से अपने शयनागारों की ओर चली जाती हैं।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः) कालागुर्विति ॥ नार्यः प्रदोषे सन्ध्यायां जलमुचां मेघानां ध्वनितं गर्जितम् श्रुत्वा त्वरितं सत्वरं गुरुग्रहात् गुरोः श्वसुरस्य गृहं गुरुगृहं तस्माच्छय्याया गृहं प्रविशन्ति । भर्त्रा सह् क्रीडां कर्तुं प्रविशन्तीत्यर्थः । किं भूताः नार्यः — कालागुरुणा कृष्णागुरुणा प्रचुरेण सर्वोत्कृष्टेन चन्दनेन चर्चितं विलेपितं संस्कृतमङ्गं यासां ताः । पुनः किं भूताः नार्यः — पुष्पमयैरवतंसैः कुसुमरचितशिरोमालाभिः सुरभीकृताः केशपाशाः वेणीदण्डा यासां ताः । वसन्ततिलकावृत्तद्वयी । उक्ता वसन्ततिलका तभजा जगौ गः
चन्द्रिकाटीका (मणिरामः) कालागुर्विति ॥ कालागुरुः कृष्णागुरुः स प्रचुरो बहुलो यस्मिंस्ताद्र्शं यच्चन्दनं तेन चर्चितं लिप्तमङ्गं शरीरं यासां तस्तथोक्ताः पुष्पावतंसेन कुसुमकर्णपूरेण सुरभीकृतः सुगन्धीकृतः केशपाशः कुन्तलसमूहो यासां तस्तथोक्ता नार्यः स्त्रियो जलमुचां वनानाम् ध्वनिं गर्जनम् श्रुत्वाकर्ण्य त्वरितं शीघ्रम् प्रदोषे रजनीमुखे गुरुगृहात् श्वसुरगृहं परित्यञ्य शय्यागृहं प्रविशन्तीत्यर्थः ॥
पदच्छेदः AI
कालागुरुप्रचुरचन्दनचर्चिताङ्ग्यःकालअगुरुप्रचुरचन्दनचर्चितअङ्गी (१.३) whose limbs are smeared with black aloe and abundant sandalwood paste
पुष्पावतंससुरभीकृतकेशपाशाःपुष्पअवतंस–सुरभीकृतकेशपाश (१.३) whose tresses are made fragrant by flower ornaments
श्रुत्वाश्रुत्वा (√श्रु+क्त्वा) having heard
ध्वनिम्ध्वनि (२.१) the sound
जलमुचाम्जलमुच् (६.३) of the clouds
त्वरितम्त्वरितम् quickly
प्रदोषेप्रदोष (७.१) at evening
शय्यागृहम्शय्यागृह (२.१) the bedchamber
गुरुगृहात्गुरुगृह (५.१) from the house of their elders
प्रविशन्तिप्रविशन्ति (प्र√विश् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) they enter
नार्यःनारी (१.३) women
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
का ला गु रु प्र न्द र्चि ता ङ्ग्यः
पु ष्पा तं सु भी कृ के पा शाः
श्रु त्वा ध्व निं मु चां त्व रि तं प्र दो षे
य्या गृ हं गु रु गृ हा त्प्र वि न्ति ना र्यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.