मालाः कदम्बनवकेसरकेतकीभि-
रायोजिताः शिरसि बिभ्रति योषितोऽद्य ।
कर्णान्तरेषु ककुभद्रुममञ्जरीभि-
रिच्छानुकूलरचितानवतंसकांश्च ॥

अन्वयः AI अद्य योषितः शिरसि कदम्बनवकेसरकेतकीभिः आयोजिताः मालाः, कर्णान्तरेषु च ककुभद्रुममञ्जरीभिः इच्छानुकूलरचितान् अवतंसकान् बिभ्रति।
Summary AI Today, women wear on their heads garlands made of Kadamba, fresh Kesara, and Ketaki flowers. And on their ears, they wear ornaments fashioned to their liking from the blossoms of the Arjuna tree.
सारांश AI स्त्रियां आज सिर पर ताजे कदंब, केसर और केतकी के पुष्पों से बनी मालाएं धारण कर रही हैं और कानों में अर्जुन वृक्ष की मंजरियों से बने मनमोहक आभूषण पहन रही हैं।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः) माला इति ॥ वर्षाकाले योषितो नार्यः शिरसि माना विभ्रति धारयन्ति। च पुनः कर्णान्तरेषु कर्णमध्येषु अवतंसकान् कर्णपूरान् विभ्रति । कथं भूता मालाः — कदम्बनवकेसरकेतकीभिः अयोजिताः । कदम्बाश्च नवकेसराश्च नवशोकाश्च केतक्यश्च कदम्बनवकेसरकेतक्यस्ताभिरायोजिताः रचिताः अर्थात् कदम्बानां पुष्पैर्ग्रथिताः । कथं भूतान् अवतंसकान् — ककुभद्रुमाणामर्जुनवृक्षाणां मञ्जर्यः ककुभद्रूममञ्जर्यः। ताभिः पूतान् पवित्रान् । पुनः कथं भूतान् — दुकूलेन पट्टकूलेन रचितास्थान । अत्र नार्यः शोभानिमित्तमेतानि वस्तूनि कुर्वन्तीत्यर्थः ॥
चन्द्रिकाटीका (मणिरामः) माला इति ॥ योषितः स्त्रियोऽथ कदम्बानि कदम्बकुसुमानि, नवकेसराणि नूतनबकुलकुसुमानि केतक्यश्च ताभिरायोजिता ग्रथिताः । अथ केसरे । बकुलः इत्यमरः (अमरकोशः २.४.६४ ) । मालाः स्रजः शिरसि मूर्धनि ककुभद्रुमोऽर्जुनवृक्षस्तस्य मञ्जरीभिः कलिकाभिरिच्छयाऽनुकूलं यथा भवति तथा रचितान् कृतानवतंसा एवावतंसकास्तान् कर्णान्तरेषु कर्णोपरिभागेषु बिभ्रति दधतीत्यर्थः । वसन्ततिलकावृत्तमेतत् । तदुक्तम् उक्ता वसन्ततिलका तभजा जगौ गः इति ॥
पदच्छेदः AI
मालाःमाला (२.३) garlands
कदम्बनवकेसरकेतकीभिःकदम्ब–नवकेसरकेतकी (३.३) with Kadamba, fresh Kesara, and Ketaki flowers
आयोजिताःआयोजित (आ√युज्+णिच्+क्त, २.३) arranged
शिरसिशिरस् (७.१) on the head
बिभ्रतिबिभ्रति (√भृ कर्तरि लट् (परस्मै.) प्र.पु. बहु.) they wear
योषितःयोषित् (१.३) women
अद्यअद्य today
कर्णान्तरेषुकर्णअन्तर (७.३) on their ears
ककुभद्रुममञ्जरीभिःककुभद्रुममञ्जरी (३.३) with blossoms of the Arjuna tree
इच्छानुकूलरचितान्इच्छाअनुकूलरचित (२.३) made according to their desire
अवतंसकान्अवतंसक (२.३) ear-ornaments
and
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
मा लाः म्ब के के की भि
रा यो जि ताः शि सि बि भ्र ति यो षि तो ऽद्य
र्णा न्त रे षु कु द्रु ञ्ज री भि
रि च्छा नु कू चि ता तं कां श्च
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.