ससीकराम्भोधरमत्तकुञ्जर-
स्तडित्पताकोऽशनिशब्दमर्दलः ।
समागतो राजवदुद्धतद्युति-
र्घनागमः कामिजनप्रियः प्रिये ॥

अन्वयः AI प्रिये, ससीकराम्भोधरमत्तकुञ्जरः, तडित्पताकः, अशनिशब्दमर्दलः, उद्धतद्युतिः, कामिजनप्रियः घनागमः राजवत् समागतः।
Summary AI O beloved, the rainy season, dear to lovers, has arrived like a king in majestic splendor. It has rutting elephants in the form of spraying clouds, lightning for its banner, and the sound of thunder for its drum.
सारांश AI हे प्रिये, प्रेमियों को प्रिय वर्षा ऋतु किसी राजा की भांति पधारी है। जलकणों से युक्त बादल इसके मतवाले हाथी हैं, बिजली इसकी ध्वजा है और कड़कती बिजली के स्वर इसके नगाड़े हैं।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः) ससीकरेति ॥ हे प्रिये वल्लभे, घनागमः मेघागमः समागतः। किं भूतः — कामिनश्च ते जनाश्च कामिजनास्तेषां प्रियो वल्लभः । किं कुर्वन् — राजवद् नृपवद् ध्वनिं रवमुद्वहन् । यथा राजा दुन्दुभ्यादिना ध्वनिं कुर्वन् समायाति तथाऽयमपि गजरिवं कुर्वन् समायाति । पुनः किंभूतः — सह शीकरैर्जलकणैः वर्तते इति सशीकर एवंविधो योऽसावम्भोधरो मेघः स एव मत्तः कुञ्जरो हस्ती यत्र सः । पुनः किंभूतः — तडितो विद्युत एव पताका यस्य सः । पुनः किंभूतः — अशनेर्वज्रस्य शब्दसदृशो गर्जितशब्दः स एव मर्दलो यत्र सः । अनेन वर्षर्तोरुत्कर्षः सूचितः ॥
चन्द्रिकाटीका (मणिरामः) अथ क्रमप्राप्तं वर्षाकालं वर्णयति — ससीकरेति ॥ हे प्रिये, ससीकरः साम्बुकणो योऽम्भोधरो जलधरः स एव मत्तः प्रमत्तः कुञ्जरो गजो यस्य स तथोक्तः । पक्षे ससीकराम्भोधर इव मत्तः कुञ्जरो यस्येति । सीकरोऽम्बुकणः स्मृताः इत्यमरः (अमरकोशः १.३.१३ ) । तडिद् विद्युदेव पताका यस्य स तथोक्तः । पक्षे तडिदिव पताका यस्येति । तडित्सौदामिनी विद्युत इत्यमरः (अमरकोशः १.३.११ ) । अशनि शब्द एव मर्दलः पक्षे अशनिर्वज्र इव यः शब्दो निनादः स एव मर्दलो वाद्यविशेषो यस्य स तथोक्तः । उद्धतद्युतिरुत्कटकान्तिः कामिजनप्रियो घनागमो वर्षाकालो राजवत्समागतः आगत इत्यर्थः । वंशस्थं वृत्तं लक्षणं तूक्तम् ॥
पदच्छेदः AI
ससीकराम्भोधरमत्तकुञ्जरःससीकरअम्भोधरमत्तकुञ्जर (१.१) having rutting elephants in the form of spraying clouds
तडित्पताकःतडित्पताका (१.१) with lightning as its banner
अशनिशब्दमर्दलःअशनिशब्दमर्दल (१.१) with the sound of thunder as its drum
समागतःसमागत (सम्+आ√गम्+क्त, १.१) has arrived
राजवत्राजवत् like a king
उद्धतद्युतिःउद्धतद्युति (१.१) of majestic splendor
घनागमःघनआगम (१.१) the rainy season
कामिजनप्रियःकामिन्जनप्रिय (१.१) dear to lovers
प्रियेप्रिया (८.१) O beloved
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
सी रा म्भो त्त कु ञ्ज
स्त डि त्प ता को ऽश नि ब्द र्द लः
मा तो रा दु द्ध द्यु ति
र्घ ना मः का मि प्रि यः प्रि ये
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.