Loading data... On slow networks this could take a few minutes.
100%

शिरोरुहैः श्रोणितटावलम्बिभिः
कृतावतंसैः कुसुमैः सुगन्धिभिः ।
स्तनैः सहारैर्वदनैः ससीधुभिः
स्त्रियो रतिं संजनयन्ति कामिनाम् ॥

अन्वयः AI श्रोणितटावलम्बिभिः शिरोरुहैः, सुगन्धिभिः कुसुमैः कृतावतंसैः, सहारैः स्तनैः, ससीधुभिः वदनैः च स्त्रियः कामिनां रतिं संजनयन्ति।
Summary AI Women arouse passion in their lovers with their hair hanging down to their hips, with fragrant flowers worn as ear-ornaments, with breasts adorned with pearl necklaces, and with faces fragrant with wine.
सारांश AI कंधों पर लटकते बालों वाली, सुगंधित पुष्पों के आभूषण पहनने वाली और मदिरा की महक युक्त मुख वाली स्त्रियां अपने प्रेमपूर्ण हाव-भाव से प्रेमियों के मन में रति जगा रही हैं।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः) शिरोरुहैरिति ॥ स्त्रियः कामिनां भोगिनाम् रतिं प्रीतिम् सञ्जनयन्ति उत्पादयन्ति । कैः — शिरोरुहैः । किं भूतैः — श्रोणेस्तटं श्रोणितटं कटीप्रदेशस्तदवलम्बन्ते ये ते श्रोणितटावलम्बिनस्तैः । शिरसि रोहन्त्युत्पद्यन्ते इति शिरोरुहास्तैः । किं भूतैः शिरोरुहैः — सुशोभनो गन्धो येषु तानि सुगन्धीनि तैः कुसुमैः कृत्वा । कृतोऽवतंसो येषु ते कृतावतंसास्तैः । पुनः कैः — सहारैः स्तनैः । हारैः मुक्ताहारैः सह वर्तन्त सहारैः । इदृशैः कुचैः । ससर्षपैः वदनैः सर्षपाकारप्रस्वेदबिन्दुसहितैर्मुखैः । अत्रैते कामिनां प्रीतिकरा भवन्तीत्यर्थः ॥
चन्द्रिकाटीका (मणिरामः) शिरोरुहैरिति ॥ स्त्रियस्तारुण्यः श्रोणितटे कटिपश्चाद्भागेऽवलम्बन्ते तैस्तथोक्तैः शिरोरुहैश्चिकुरैः । चिकुरः कुन्तलो बालः कचः केशः शिरोरुहः इत्यमरः (अमरकोशः २.६.९६ ) । कृतावतंसैः सुगन्धिभिः कुसुमैः पुष्पैः । पुष्पं प्रसूनं कुसुमम् इत्यमरः (अमरकोशः २.४.१७ ) । संहारैः कुसुममालासहितैः स्तनैः कुचैः ससीधुभिर्मधुसहितैः वदनैराननैः कामिनां विलासिनां रतिं प्रीतिम् सञ्जनयन्ति सम्यक् प्रकारेणोत्पादयन्तीत्यर्थः ॥
पदच्छेदः AI
शिरोरुहैःशिरोरुह (३.३) with hair
श्रोणितटावलम्बिभिःश्रोणितटअवलम्बिन् (३.३) hanging down to the slope of the hips
कृतावतंसैःकृतअवतंस (३.३) with ear-ornaments made
कुसुमैःकुसुम (३.३) with flowers
सुगन्धिभिःसुगन्धि (३.३) fragrant
स्तनैःस्तन (३.३) with breasts
सहारैःसहार (३.३) adorned with necklaces
वदनैःवदन (३.३) with faces
ससीधुभिःससीधु (३.३) fragrant with wine
स्त्रियःस्त्री (१.३) women
रतिम्रति (२.१) passion
संजनयन्तिसंजनयन्ति (सम्√जन् +णिच् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) they arouse
कामिनाम्कामिन् (६.३) of lovers
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
शि रो रु हैः श्रो णि टा म्बि भिः
कृ ता तं सैः कु सु मैः सु न्धि भिः
स्त नैः हा रै र्व नैः सी धु भिः
स्त्रि यो तिं सं न्ति का मि नाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.