Loading data... On slow networks this could take a few minutes.
100%

कदम्बसर्जार्जुनकेतकीवनं
विकम्पयंस्तत्कुसुमाधिवासितः ।
ससीकराम्भोधरसङ्गशीतलः
समीरणः कं न करोति सोत्सुकम् ॥

अन्वयः AI कदम्बसर्जार्जुनकेतकीवनं विकम्पयन्, तत्कुसुमाधिवासितः, ससीकराम्भोधरसङ्गशीतलः समीरणः कं सोत्सुकं न करोति?
Summary AI The wind, shaking the forests of Kadamba, Sarja, Arjuna, and Ketaki trees, is perfumed by their blossoms. Cooled by its contact with drizzling clouds, whom does this wind not fill with longing?
सारांश AI कदम्ब, सर्ज, अर्जुन और केतकी के वनों को झकझोरती हुई और उनकी सुगंध से बसी हुई शीतल पवन, जिसमें जल की नन्हीं बूंदें मिली हैं, भला किसका मन उत्सुक नहीं कर देती?
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः) कदम्बेति ॥ समीरणो वायुः कं मनुष्यं सोत्सुकं प्रियामिलनोत्कण्ठितं न करोत्यपि तु सर्वं जनं सोत्सुकं करोतीत्यर्थः । किं कुर्वन् — कदम्बश्च सर्जश्चार्जुनश्च नीपश्च केतकी च कदम्बसर्जार्जुननीपकेतक्यस्ता विकम्पयन् विशेषेण धूनयन् । किं भूतः समीरणः — तत् कुसुमाधिवासितः तेषां पूर्वोक्त व्र्क्षाणां कुसुमैः पुष्पैरधिवासितः सुगन्धीकृतः । पुनः कथं भूतः समीरणः — शीकरैर्जलकणैः सह वर्तत इति सशीकरः सशीकरो योऽसावम्भोधरो मेघस्तस्य सङ्गेन शीतलः ॥
चन्द्रिकाटीका (मणिरामः) कदम्बेति ॥ कदम्बो नीपः सर्जोऽश्वकर्णः, अर्जुनः ककुभः, केतक्यश्च तासां वनं समुदायम् । नीपप्रियककदम्बास्तु हरिप्रिये इत्यमरः (अमरकोशः २.४.४२ ) साले तु सर्जकार्श्याश्वकर्णकाः सस्यसम्वरः इत्यमरः (अमरकोशः २.४.४४ ) इन्द्रद्रुः ककुभोऽर्जुनः इत्यमरः (अमरकोशः २.४.४५ ) । विकम्पयन् तेषां पूर्वोक्त द्रुमाणां कुसुमैः पुष्पैरधिवासितः सञ्जाताधिवासः ससीकरो जलकणसहितो योऽम्भोधरो मेघस्तस्य सङ्गेन संसर्गेण शीतलः शीतः समीरणो मारुतः । समीरमारुतमरुज्जगत्प्राणसमीरणाः इत्यमरः (अमरकोशः १.१.७४ ) । कं पुरुषं सोत्सुकं सोत्कण्ठं न करोति अपि तु सर्वमेवेत्यर्थः ॥
पदच्छेदः AI
कदम्बसर्जार्जुनकेतकीवनम्कदम्बसर्जअर्जुनकेतकीवन (२.१) the forest of Kadamba, Sarja, Arjuna, and Ketaki trees
विकम्पयन्विकम्पयत् (वि√कम्प्+णिच्+शतृ, १.१) shaking
तत्कुसुमाधिवासितःतत्कुसुमअधिवासित (१.१) perfumed by their flowers
ससीकराम्भोधरसङ्गशीतलःससीकरअम्भोधरसङ्गशीतल (१.१) cool from contact with drizzling clouds
समीरणःसमीरण (१.१) the wind
कम्किम् (२.१) whom
not
करोतिकरोति (√कृ कर्तरि लट् (परस्मै.) प्र.पु. एक.) does it make
सोत्सुकम्सोत्सुक (२.१) longing
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
म्ब र्जा र्जु के की नं
वि म्प यं स्त त्कु सु मा धि वा सि तः
सी रा म्भो ङ्ग शी लः
मी णः कं रो ति सो त्सु कम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.