कमलवनचिताम्बुः पाटलामोदरम्यः
सुखसलिलनिषेकः सेव्यचन्द्रांशुहारः ।
व्रजतु तव निदाघः कामिनीभिः समेतो
निशि सुललितगीते हर्म्यपृष्ठे सुखेन ॥

अन्वयः AI कमलवनचिताम्बुः पाटलामोदरम्यः सुखसलिलनिषेकः सेव्यचन्द्रांशुहारः एवंविधः तव निदाघः कामिनीभिः समेतः निशि सुललितगीते हर्म्यपृष्ठे सुखेन व्रजतु।
Summary AI May your summer—with its waters filled with lotuses, delightful with the fragrance of Patala flowers, pleasant with cool baths, and enjoyable with moonbeams and pearl necklaces—pass happily. May you spend it with your beloveds on a mansion terrace at night, filled with charming songs.
सारांश AI कमलों से युक्त जल, पाटल पुष्पों की सुगंध, चंद्रमा की किरणों और सुंदर संगीत के बीच कामिनियों के साथ महलों की छतों पर विहार करते हुए आपका यह ग्रीष्म काल सुखपूर्वक व्यतीत हो।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः) कमलेति ॥ कविर्भोजराजं प्रति वदति — हे राजन तव निदाघो ग्रीष्मः। हर्म्यपृष्ठे गृहपरिभोगे । सुखेन कामिनीभिर्ललनाभिः समेतं सार्द्धम् । व्रजतु गच्छतु । कैः — निशि रात्रौ सुललितगीतैः । सु अतिशयेन ललितानि मनोहराणि यानि गीतानि तैः । किंभूतो निदाघः — कमलवनैः पङ्कजकाननैः निश्चितं व्याप्तमम्बु यत्र सः। पुनः कीदृशः — पाटलानामामोदः परिमलः तेन रम्यो रमणीयः । पुनः कीदृशः — सुखः सुखदायी सलिलनिषेको जलसेवनं स्नानादिर्यत्र स सुखसलिलनिषेकः । पुनः कीदृशः — सेव्यः सेवनीयश्चन्द्रांशुमयो हारो यत्र सः । अत्रेतानि वस्तूनि ग्रीष्मतापहारीणि भवन्तीति भावः । यदुक्तम् — स्नानं सुशीतं सलिलं सरोजं सरोवरः शीतकरः सुगन्धः । सन्ध्या स्त्रियः सेकतिकी तटानि, ग्रीष्मेऽतिहर्षाय भवन्त्यभूरि ॥ मालिनीवृत्तानीमानि सप्तकाव्यानि । तल्लक्षणं — ननमयययुतेयं मालिनी भोगिलोकैः इति । श्रीमान् कीर्तिवरसूरिगुणाकराणां पट्टेऽनुवै अमरकीर्तिर्विनिर्मितायां । श्रीमद्विशेषकमहानद्यकाव्यवृत्तौ सर्गोऽजनि प्रथम एष नृपाभिरम्यः ॥ इति श्रीमान्नागपूरीय तपागच्छीय भट्टारक श्री अमर कीर्तिसूरिकृतायां श्रीकालिदासकृत विशेषकाव्यटीकायां ग्रीष्मऋतुवर्णनो नाम प्रथमः सर्गः ॥
चन्द्रिकाटीका (मणिरामः) कमलेति ॥ सुललितमतिरमणीयं गीतं गानं यस्यास्तस्याः सम्बोधनं हि सुललितगीते। कमलानां पङ्कजानां वनेन समुदायेन चितं व्याप्तमम्बु जलं यस्मिन् स तथोक्तः । पाटलानां पाटलकुसुमानामामोदो गन्धो रम्यो रमणीयो यस्मिन् स तथोक्तः । यद्वा पाटलामोदेन रम्यो रमणीय इति । सुखः सुखकरः सलिलस्य निषेकः स्नानं यस्मिन् स तथोक्तः । सेव्याः सेवितुं योग्याश्चन्दरस्यांशवः किरणा हाराः कुसुममालाश्च यस्मिन् स तथोक्तः । कामिनीभिः समेतो युक्तो निदाघो निदाघकालो निशि रात्रौ हर्म्यपृष्ठे प्रासादतले सुखेन तव व्रजतु गच्छत्वित्यर्थः ॥ इति श्रीभारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया समेता कवि श्रीकालिदास कविवराग्रणीकृतावृतुसंहारे महाकाव्ये ग्रीष्मवर्णनं नाम प्रथमः सर्गः ॥
पदच्छेदः AI
कमलवनचिताम्बुःकमलवनचित (√चि+क्त)अम्बु (१.१) summer, whose waters are filled with lotus groves
पाटलामोदरम्यःपाटलाआमोदरम्य (१.१) delightful with the fragrance of Patala flowers
सुखसलिलनिषेकःसुखसलिलनिषेक (१.१) with pleasant sprinklings of water
सेव्यचन्द्रांशुहारःसेव्यचन्द्रअंशुहार (१.१) where moonbeams and pearl necklaces are enjoyable
व्रजतुव्रजतु (√व्रज् कर्तरि लोट् (परस्मै.) प्र.पु. एक.) may it pass
तवयुष्मद् (६.१) your
निदाघःनिदाघ (१.१) the summer
कामिनीभिःकामिनी (३.३) with beloved women
समेतःसमेत (सम्+आ√इ+क्त, १.१) accompanied
निशिनिशा (७.१) at night
सुललितगीतेसुललितगीत (७.१) with charming songs
हर्म्यपृष्ठेहर्म्यपृष्ठ (७.१) on the terrace of a mansion
सुखेनसुख (३.१) happily
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
चि ता म्बुः पा ला मो म्यः
सु लि नि षे कः से व्य न्द्रां शु हा रः
व्र तु नि दा घः का मि नी भिः मे तो
नि शि सु लि गी ते र्म्य पृ ष्ठे सु खे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.