Loading data... On slow networks this could take a few minutes.
100%

सितेषु हर्म्येषु निशासु योषितां
सुखप्रसुप्तानि मुखानि चन्द्रमाः ।
विलोक्य नूनं भृशमुत्सुकश्चिरं
निशाक्षये याति ह्रियेव पाण्डुताम् ॥

अन्वयः AI चन्द्रमाः निशासु सितेषु हर्म्येषु सुख-प्रसुप्तानि योषिताम् मुखानि विलोक्य नूनम् भृशम् उत्सुकः सन् चिरम् तिष्ठति, ततः निशा-क्षये ह्रिया इव पाण्डुताम् याति ।
Summary AI The moon, gazing at the peacefully sleeping faces of women on white palace terraces at night, surely becomes very eager and lingers long. Then, at the end of the night, it turns pale as if from shame.
सारांश AI धवल महलों में सोती हुई स्त्रियों के सुंदर मुखों को देखकर ईर्ष्यावश चंद्रमा रात्रि के अंत में लज्जा के कारण पीला पड़कर मानो अस्त हो जाता है।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः) सितेष्विति ॥ चन्द्रमा निशाक्षये निशायाः रात्रेः क्षयो विनाशो निशाक्षयस्तस्मिन् । रात्र्यन्ते ह्रिया लज्जयेव पाण्डुतां श्वेतत्वं याति प्राप्नोति । किं कृत्वा — निशासु रात्रिषु सितेषु श्वेतवर्णेषु हर्म्येषु अर्थात् सुधाधवलितेषु गृहोपरिभागेषु योषितां स्त्रीणां मुखानि वक्त्राणि विलोक्य दृष्ट्वा । किंभूतानि मुखानि — निर्यन्त्रणं यन्त्रणमर्गलाच्छादनादि तद्रहितं यथा भवति तथा । सुखप्रसुप्तानि सुखेन प्रसुप्तानि सुप्तामवस्थां गतानि सुखप्रसुप्तानि तानि । किंभूतश्चन्द्रः — उत्सुकः जेतुमुद्यतः । अन्योऽपि कमपि जेतुमुत्कण्ठितः पश्चात्तस्य गुणाधिक्यं विलोक्य विच्छायत्वं प्राप्नोतिति । किंतु चन्द्रादपि स्त्रीमुखानि निशान्तेषु सुन्दराणि लगन्तीति भावः ॥
चन्द्रिकाटीका (मणिरामः) सितेष्विति ॥ चन्द्रमा निशासु रात्रिषु सितेषु धवलेषु हर्म्येषु प्रासादेषु योषितां स्त्रीणां सुखेन प्रसुप्तानि निद्रितानि मुखानि वदनानि चिरं चिरकालं विलोक्यावलोक्यभृशमत्युत्सुक उत्कण्ठितः सन्निशाक्षये रात्रिक्षये ह्रियेव लज्जयेव पाण्डुतां पाण्डुरतां याति गच्छति । नूनमिति वितर्के ॥
पदच्छेदः AI
सितेषुसित (७.३) on white
हर्म्येषुहर्म्य (७.३) on palace terraces
निशासुनिशा (७.३) at night
योषिताम्योषित् (६.३) of women
सुखप्रसुप्तानिसुखप्रसुप्त (प्र√स्वप्+क्त, २.३) peacefully sleeping
मुखानिमुख (२.३) faces
चन्द्रमाःचन्द्रमस् (१.१) the moon
विलोक्यविलोक्य (वि√लोक्+ल्यप्) having seen
नूनम्नूनम् surely
भृशम्भृशम् very
उत्सुकःउत्सुक (१.१) eager
चिरम्चिरम् for a long time
निशाक्षयेनिशाक्षय (७.१) at the end of the night
यातियाति (√या कर्तरि लट् (परस्मै.) प्र.पु. एक.) goes to
ह्रियाह्री (३.१) with shame
इवइव as if
पाण्डुताम्पाण्डुता (२.१) paleness
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
सि ते षु र्म्ये षु नि शा सु यो षि तां
सु प्र सु प्ता नि मु खा नि न्द्र माः
वि लो क्य नू नं भृ मु त्सु श्चि रं
नि शा क्ष ये या ति ह्रि ये पा ण्डु ताम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.