सचन्दनाम्बुव्यजनोद्भवानिलैः
सहारयष्टिस्तनमण्डलार्पणैः ।
सवल्लकीकाकलिगीतनिस्वनै-
र्विबोध्यते सुप्त इवाद्य मन्मथः ॥
सचन्दनाम्बुव्यजनोद्भवानिलैः
सहारयष्टिस्तनमण्डलार्पणैः ।
सवल्लकीकाकलिगीतनिस्वनै-
र्विबोध्यते सुप्त इवाद्य मन्मथः ॥
सहारयष्टिस्तनमण्डलार्पणैः ।
सवल्लकीकाकलिगीतनिस्वनै-
र्विबोध्यते सुप्त इवाद्य मन्मथः ॥
अन्वयः
AI
अद्य मन्मथः सुप्तः इव स-चन्दन-अम्बु-व्यजन-उद्भव-अनिलैः, स-हार-यष्टि-स्तन-मण्डल-अर्पणैः, स-वल्लकी-काकलि-गीत-निस्वनैः च विबोध्यते ।
Summary
AI
Today, the god of love (Manmatha), as if asleep, is being awakened by breezes from fans sprinkled with sandalwood water, by the offering of breasts adorned with pearl strings, and by the sounds of sweet, soft songs accompanied by lutes.
सारांश
AI
चंदन मिश्रित जल से भीगे पंखों की हवा, स्तनों पर सुशोभित मोतियों की माला और वीणा की मधुर तान सोए हुए कामदेव को पुनः जागृत कर देती है।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः)
सचन्दनेति ॥ एभिर्वस्तुभिरद्य साम्प्रतं सुप्तो मन्मथः कामः प्रबोध्यते इव जागरुकः क्रियत इव । एभिः कैः — सचन्दनेन्दुव्यजनोद्भवानिलैः चन्दनञ्चेन्दुः कर्पूरश्च चन्दनेन्दू ताभ्यां सहिता ये व्यजनोद्भवानिलास्तालवृन्तजनितवायवस्तथा तैः अर्थाच्चन्दनचन्द्ररसाश्लिष्टव्यजनवातैः । किंभूतैः सचन्दनेन्दुव्यजनोद्भवानिलैः — सहारयष्टिस्तनमण्डलार्पितैः । हारयष्ट्या मुक्तामयहारेण सहितं यत्स्तनमण्डलं तस्मिन्नर्पितास्तापोपशान्त्यर्थं स्थापिता अर्थाद्विहितास्तथा तैः । पुनः कैः — सवल्लकीकाकलगीतिनिः सवनैः वल्लक्याः वीणायाः काकलेन सूक्ष्मध्वनिना सह या गीतिर्गानं तस्याः निःस्वनाः शब्दास्तथा तैः ।
काकलीति कलः सूक्ष्मे इत्यभिधानचिन्तामणौ (६|४६) ग्रीष्मर्तौ चन्दन चन्द्र व्यजन वात सहारयष्टि तरुणी स्तन मण्डल वीणारागाः कामोद्दीप्तिकरा भवन्तीति भावः ॥
चन्द्रिकाटीका (मणिरामः)
सचन्दनेति ॥ चन्दनाम्बुना चन्दनजलेन चन्दनद्रवेणेति यावत् सहितं युक्तं यद् व्यजनं तदुद्भवास्तदुत्पन्ना येऽनिला वायवस्तैः हारयष्ट्या कुसुममालया सहितानि युक्तानि यानि स्तनमण्डलानि कुचमण्डलानि तेषाम् अर्पणैः वल्लक्या वीणया सहिताश्च ते काकलिनः सूक्ष्मकलाश्च ते गीतनिस्वना गाननिनादाश्च तैः ।
वीणा तु वल्लकी इत्यमरः (अमरकोशः १.७.४ ) । काकली तु कले सूक्ष्मे इत्यमरः (अमरकोशः १.७.२ ) । गीतं गानमिमे समे इत्यमरः (अमरकोशः १.६.२८ ) । अद्य मन्मथः कामः सुप्त इव निद्रिइत इव राजेवेत्यर्थः । बिबोध्यते उद्बोध्यते ॥
पदच्छेदः
AI
| सचन्दनाम्बुव्यजनोद्भवानिलैः | स–चन्दन–अम्बु–व्यजन–उद्भव (उद्√भू+अच्)–अनिल (३.३) | by breezes from fans sprinkled with sandalwood water |
| सहारयष्टिस्तनमण्डलार्पणैः | स–हार–यष्टि–स्तन–मण्डल–अर्पण (√ऋ+णिच्+ल्युट्, ३.३) | by the offering of breasts adorned with pearl strings |
| सवल्लकीकाकलिगीतनिस्वनैः | स–वल्लकी–काकलि–गीत–निस्वन (३.३) | by the sounds of sweet, soft songs accompanied by lutes |
| विबोध्यते | विबोध्यते (वि√बुध् +णिच् भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) | is being awakened |
| सुप्तः | सुप्त (√स्वप्+क्त, १.१) | asleep |
| इव | इव | as if |
| अद्य | अद्य | today |
| मन्मथः | मन्मथ (१.१) | the god of love |
छन्दः
वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ | १२ |
|---|---|---|---|---|---|---|---|---|---|---|---|
| स | च | न्द | ना | म्बु | व्य | ज | नो | द्भ | वा | नि | लैः |
| स | हा | र | य | ष्टि | स्त | न | म | ण्ड | ला | र्प | णैः |
| स | व | ल्ल | की | का | क | लि | गी | त | नि | स्व | नै |
| र्वि | बो | ध्य | ते | सु | प्त | इ | वा | द्य | म | न्म | थः |
| ज | त | ज | र | ||||||||
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.