Loading data... On slow networks this could take a few minutes.
100%

समुद्गतस्वेदचिताङ्गसंधयो
विमुच्य वासांसि गुरूणि साम्प्रतम् ।
स्तनेषु तन्वंशुकमुन्नतस्तना
निवेशयन्ति प्रमदाः सयौवनाः ॥

अन्वयः AI साम्प्रतम् समुद्गत-स्वेद-चित-अङ्ग-संधयः, उन्नत-स्तनाः, स-यौवनाः प्रमदाः गुरूणि वासांसि विमुच्य स्तनेषु तनु-अंशुकम् निवेशयन्ति ।
Summary AI Now, youthful women with high breasts, their limbs covered in perspiration, are casting off their heavy garments and putting on fine, thin clothes over their bosoms.
सारांश AI पसीने से भीगी हुई युवतियां भारी वस्त्रों को त्यागकर अपने उन्नत स्तनों पर अत्यंत बारीक और झीने रेशमी वस्त्र धारण कर रही हैं।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः) समुद्गतेति ॥ य पुनः सह यौवनेन तारुण्येन वर्तन्त इति सयौवनाः प्रमदाः । साम्प्रतं ग्रीष्मावसरे स्तनेषु अच्छ सूक्ष्मं च तदंशुकं वस्त्रञ्च अच्छांशुकं तन्निवेशयन्ति स्थापयन्ति । किं भूताः प्रमदाः — उन्नतस्तनाः उन्नताः स्तनाः यासां ताः । किं कृत्वा — गुरुणि स्थूलानि वासांसि वस्त्राणि विमुच्य मुक्त्वा । पुनः किंभूताः प्रमदाः — समुद्गत उत्पन्नो योऽसौ स्वेदः प्रस्वेदस्तेन चिता व्याप्ता अतएवार्द्राः सन्धयः कक्षादयो यासां ताः ।
चन्द्रिकाटीका (मणिरामः) समुद्गतेति ॥ समुद्गतो निर्गतो यः स्वेदो घर्मस्तेन चिता व्याप्ता अङ्गसन्धयो बाहुमूलादयो यासां तास्तथोक्ताः सयौवनास्तारुण्यसहिता उन्नतस्तना उच्चकुचाः प्रमदाः स्त्रियः साम्प्रतमिदानीं गुरूणि जडानि वासांसि वस्त्राणि विमुच्य दूरीकृत्य स्तनेषु कुचेषु तनु सूक्ष्मम् अंशुकं वासः कञ्चुकादि निवेशयन्ति स्थापयन्तीत्यर्थः ॥
पदच्छेदः AI
समुद्गतस्वेदचिताङ्गसंधयःसमुद्गत (सम्+उद्√गम्+क्त)स्वेदचित (√चि+क्त)अङ्गसंधि (१.३) whose limbs are covered in perspiration
विमुच्यविमुच्य (वि√मुच्+ल्यप्) having cast off
वासांसिवासस् (२.३) garments
गुरूणिगुरु (२.३) heavy
साम्प्रतम्साम्प्रतम् now
स्तनेषुस्तन (७.३) on their bosoms
तन्वंशुकम्तनुअंशुक (२.१) a thin garment
उन्नतस्तनाःउन्नत (उद्√नम्+क्त)स्तन (१.३) with high breasts
निवेशयन्तिनिवेशयन्ति (नि√विश् +णिच् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) place
प्रमदाःप्रमदा (१.३) women
सयौवनाःयौवन (१.३) youthful
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
मु द्ग स्वे चि ता ङ्ग सं यो
वि मु च्य वा सां सि गु रू णि सा म्प्र तम्
स्त ने षु न्वं शु मु न्न स्त ना
नि वे न्ति प्र दाः यौ नाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.