Loading data... On slow networks this could take a few minutes.
100%

पयोधराश्चन्दनपङ्कचर्चिता-
स्तुषारगौरार्पितहारशेखराः ।
नितम्बदेशाश्च सहेममेखलाः
प्रकुर्वते कस्य मनो न सोत्सुकम् ॥

अन्वयः AI चन्दन-पङ्क-चर्चिताः, तुषार-गौर-अर्पित-हार-शेखराः पयोधराः, स-हेम-मेखलाः नितम्ब-देशाः च कस्य मनः स-उत्सुकम् न प्रकुर्वते?
Summary AI Whose mind is not filled with longing by breasts smeared with sandalwood paste and adorned with snow-white pearl necklaces, and by hip regions girdled with golden belts?
सारांश AI चंदन के लेप से चर्चित स्तन, उन पर सुशोभित शीतल मोतियों के हार और सुवर्ण की करधनी से सजे नितंब भला किसके मन में उत्कंठा पैदा नहीं करते।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः) पयोधरेति ॥ पयोधराः स्तनाश्च पुनर्नितम्बदेशाः कटिपश्चाद्भागाः कस्य पुरुषस्य मनः सोत्सुकं नारीरमणलालसं न प्रकुर्वते । अपि तु सर्वस्य मनः सोत्सुकम् प्रकुर्वत इत्यर्थः । किंभूताः पयोधराः — चन्दनस्य पङ्कः कर्दमस्तेन चर्चिताः कृतलेपाः । पुनः किंभूताः — तुषारवद् हिमवद् गौरा धवलाः अर्पिता स्थापिता हाराः शेखरे अगरे उपरिप्रदेशे येषां तैः । किंभूता नितम्बदेशाः — हेम्नः सुवर्णस्य मेखलाभी रशनाभिः सह वर्तन्त इति सहेममेखलाः । अनेन स्त्रीणामस्यन्तरमणीयत्वं सूचितम् ॥
चन्द्रिकाटीका (मणिरामः) पयोधरा इति ॥चन्दनस्य पङ्केन द्रवेण चर्चिताः लिप्ताः तुषारवद्गौराः शुब्रवर्णा अर्पिता हारशेखराः श्रेष्ठहारा येषु ते तयोक्ताः पयोधराः स्तनाः । सहेममेखलाः सुवर्णरशनासहिताः । स्त्रीकट्यां मेखला काञ्ची सप्तकी रशना तथा इत्यमरः (अमरकोशः २.६.२०९ ) । नितम्बदेशाः श्रोणीबन्धाश्च मनः सोत्सुकं सोत्कण्ठं न प्रकुर्वर्ते प्रकर्षेण न कुर्वन्ति अपि तु सर्वस्यापीत्यर्थः ॥
पदच्छेदः AI
पयोधराःपयस्धर (√धृ+अच्, १.३) Breasts
चन्दनपङ्कचर्चिताःचन्दनपङ्कचर्चित (√चर्च्+क्त, १.३) smeared with sandalwood paste
तुषारगौरार्पितहारशेखराःतुषारगौरअर्पित (√ऋ+णिच्+क्त)हारशेखर (१.३) adorned with snow-white pearl necklaces
नितम्बदेशाःनितम्बदेश (१.३) hip regions
and
सहेममेखलाःहेमन्मेखला (१.३) with golden girdles
प्रकुर्वतेप्रकुर्वते (प्र√कृ कर्तरि लट् (आत्मने.) प्र.पु. बहु.) make
कस्यकिम् (६.१) whose
मनःमनस् (२.१) mind
not
सोत्सुकम्उत्सुक (२.१) filled with longing
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
यो रा श्च न्द ङ्क र्चि ता
स्तु षा गौ रा र्पि हा शे राः
नि म्ब दे शा श्च हे मे लाः
प्र कु र्व ते स्य नो सो त्सु कम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.