नितम्बबिम्बैः सदुकूलमेखलैः
स्तनैः सहाराभरणैः सचन्दनैः ।
शिरोरुहैः स्नानकषायवासितैः
स्त्रियो निदाघं शमयन्ति कामिनाम् ॥

अन्वयः AI स्त्रियः स-दुकूल-मेखलैः नितम्ब-बिम्बैः, स-हार-आभरणैः स-चन्दनैः स्तनैः, स्नान-कषाय-वासितैः शिरोरुहैः च कामिनाम् निदाघम् शमयन्ति ।
Summary AI Women alleviate the summer heat for their lovers with their rounded hips adorned with silk garments and girdles, with their breasts decorated with pearl necklaces and sandalwood paste, and with their hair made fragrant by bathing lotions.
सारांश AI स्त्रियां रेशमी वस्त्रों, मोतियों के हारों, शीतल चंदन और स्नान के बाद सुगंधित किए गए अपने केशों के माध्यम से प्रेमियों की ग्रीष्मकालीन तपन को शांत करती हैं।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः) नितम्बेति ॥ स्त्रियः कामिनामेभिर्वस्तुभिः कृत्वा निदाघं तापं शमयन्ति । एभिः कैः — सुदुकूलमेखलैर्नितम्बबिम्बैः दुकूलञ्च मेक्खला च दुकूलमेखले ताभ्यां सह वर्तन्त इति तथा तैर्नितम्बबिम्बैः । कटिपश्चाद्भागा नितम्बास्त एव बिम्बाः बिम्बवच्चक्राकारा नितम्बबिम्बास्तैः । पुनः कैः — सहाराभरणैः स्तनैः । हारा मुक्तामयाश्चाभरणान्यलङ्काराणि च तथा तैः सह वर्तन्ते । अथवा हारा एवाभरणानि तैः सह वर्तन्त ईदृशैः स्तनैरुरोजैस्तापं शमयन्ति । किंभूतैः स्तनैः —सचन्दनैः चन्दनानुलिप्तैः । पुनः — स्नानकषायवाषितैः शिरोरुहैः स्नानस्य कषायेण कषायगन्धेन वासितास्तथा तैरथवा स्नानस्य स्नानार्थं वा कषायः क्वाथोऽर्थात् तैः वासितास्तथा । तैः शिरोरुहैः केशैः भृशं तापं शमयन्ति । एषां स्पर्शैः कामिनां कामोद्भवतापोपशान्तिजनको भवतीत्यर्थः ॥
चन्द्रिकाटीका (मणिरामः) नितम्बेति ॥ स्त्रियो विलासिन्यो दुकूलानि वस्त्राणि मेखला रशनाश्च ताभिः सहितानि तैस्तथोक्तैर्नितम्बबिम्बैः कटिपश्चाद्भागैः । पश्चान्नितम्बः स्त्रीकट्याः इत्यमरः (अमरकोशः २.६.७५ ) । हारा आभरणानि च तैः सहितास्तैस्तथोक्तैः स चन्दनैश्चन्दनलिप्तैः स्तनैः स्नाने स्नानकाले यः कषायो लापितसुगन्धिद्रव्यं तेन वासिताः सञ्जातवासास्तैस्तथोक्तैश्शिरोरुहैः केशैः कामिनां निदाघमूष्माणं शमयन्ति दूरीकुर्वन्तीत्यर्थः ॥
पदच्छेदः AI
नितम्बबिम्बैःनितम्बबिम्ब (३.३) with rounded hips
सदुकूलमेखलैःदुकूलमेखला (३.३) with silk garments and girdles
स्तनैःस्तन (३.३) with breasts
सहाराभरणैःहारआभरण (३.३) with necklaces and ornaments
सचन्दनैःचन्दन (३.३) with sandalwood paste
शिरोरुहैःशिरस्रुह (√रुह्+क, ३.३) with hair
स्नानकषायवासितैःस्नानकषायवासित (√वास्+णिच्+क्त, ३.३) fragrant from bathing lotions
स्त्रियःस्त्री (१.३) women
निदाघम्निदाघ (२.१) the summer heat
शमयन्तिशमयन्ति (√शम् +णिच् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) alleviate
कामिनाम्कामिन् (६.३) of lovers
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
नि म्ब बि म्बैः दु कू मे लैः
स्त नैः हा रा णैः न्द नैः
शि रो रु हैः स्ना षा वा सि तैः
स्त्रि यो नि दा घं न्ति का मि नाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.