गजगवयमृगेन्द्रा वह्निसंतप्तदेहाः
सुहृद इव समेता द्वंद्वभावं विहाय ।
हुतवहपरिखेदादाशु निर्गत्य कक्षा-
द्विपुलपुलिनदेशां निम्नगां संविशन्ति ॥

अन्वयः AI वह्निसंतप्तदेहाः गजगवयमृगेन्द्राः द्वंद्वभावं विहाय सुहृदः इव समेताः सन्तः हुतवहपरिखेदात् कक्षात् आशु निर्गत्य विपुलपुलिनदेशाम् निम्नगाम् संविशन्ति।
Summary AI Elephants, gayals, and lions, their bodies scorched by the fire, abandon their mutual enmity. Coming together like friends, distressed by the fire, they quickly emerge from the thickets and enter a river with vast sandy banks.
सारांश AI अग्नि से तप्त शरीर वाले हाथी, जंगली बैल और सिंह अपनी स्वाभाविक शत्रुता त्यागकर मित्रों की भाँति साथ आकर आग से बचने के लिए विस्तृत तटों वाली नदियों में प्रवेश कर रहे हैं।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः) गजेति ॥ गजाश्च गवया वनगवाश्च मृगेन्द्राः सिंहाश्च गजगवयमृगेन्द्राः हुतवहपरिखेदात् हुतवहस्याग्नेः परिखेदः परितापस्तस्मात् । द्वन्द्वस्य वैरस्य भावो द्वन्द्वभावः शत्रुत्वं विहाय त्यक्त्वा आशु शीघ्रं निम्नगां नदीमाश्रयन्ते । किं कृत्वा — कक्षात् तृणप्रदेशान्निर्गत्य । कीदृशाः — वह्निसंतप्तदेहाः वह्निसंतप्ता देहा येषां ते । पुनः — सुहृदो मित्राणीव समेताः मिलिताः । किं भूतां निम्नगाम् — विपुलो विस्तीर्णः पुलिनस्य देशः प्रदेशो यस्यां सा तथा ताम् ॥
चन्द्रिकाटीका (मणिरामः) गजेति ॥ वह्निना दावाग्निना सन्तप्तो देहः शरीरं येषां ते तथोक्ता अत एव द्वन्द्वभावं वैरभावं विहाय त्यक्त्वा सुहृदो मित्राणीव समेता सङ्गताः गजगवयमृगेन्द्रा गजो इभः गवयो गोसदृशो मृगविशेषः मृगेन्द्रः सिंहश्च ते हुतवहस्य वहनेः परिखेदात् सन्तापात् यद्वा हुतवहस्य परिखेदो यत्र तस्मात्तथोक्तात् । कक्षाद् गिरिगह्वरादाशु झटिति निर्गत्य विपुलो महान् पुलिनदेशस्तीरप्रान्तो यस्यास्तां तथोक्तं निम्नगां नदीं संविशन्ति आश्रयन्त इत्यर्थः ॥
पदच्छेदः AI
गजगवयमृगेन्द्राःगजगवयमृगेन्द्र (१.३) elephants, gayals, and lions
वह्निसंतप्तदेहाःवह्निसंतप्त (सम्√तप्+क्त)देह (१.३) whose bodies are scorched by fire
सुहृदःसुहृद् (१.३) friends
इवइव like
समेताःसमेत (सम्+आ√इ+क्त, १.३) come together
द्वंद्वभावम्द्वंद्वभाव (२.१) the state of enmity
विहायविहाय (वि√हा+ल्यप्) having abandoned
हुतवहपरिखेदात्हुतवहपरिखेद (५.१) due to the distress from the fire
आशुआशु quickly
निर्गत्यनिर्गत्य (निर्√गम्+ल्यप्) having come out
कक्षात्कक्ष (५.१) from the thicket
विपुलपुलिनदेशाम्विपुलपुलिनदेश (२.१) which has vast sandy banks
निम्नगाम्निम्नगा (२.१) a river
संविशन्तिसंविशन्ति (सम्√विश् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) they enter
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
मृ गे न्द्रा ह्नि सं प्त दे हाः
सु हृ मे ता द्वं द्व भा वं वि हा
हु रि खे दा दा शु नि र्ग त्य क्षा
द्वि पु पु लि दे शां नि म्न गां सं वि न्ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.