विकचनवकुसुम्भस्वच्छसिन्दूरभासा
प्रबलपवनवेगोद्भूतवेगेन तूर्णम् ।
तटविटपलताग्रालिङ्गनव्याकुलेन
दिशि दिशि परिदग्धा भूमयः पावकेन ॥

अन्वयः AI विकच-नव-कुसुम्भ-स्वच्छ-सिन्दूर-भासा, प्रबल-पवन-वेग-उद्भूत-वेगेन, तट-विटप-लता-अग्र-आलिङ्गन-व्याकुलेन पावकेन भूमयः दिशि दिशि तूर्णम् परिदग्धाः ।
Summary AI The lands in every direction are swiftly scorched by the forest fire, which glows like fresh safflower or bright vermilion, whose speed is increased by the force of strong winds, and which is eager to embrace the tops of riverbank trees and creepers.
सारांश AI ताजे खिले कुसुम के फूलों और सिन्दूर जैसी आभा वाली दावानल, प्रचंड हवा के वेग से बढ़ती हुई तटों के वृक्षों और लताओं को अपनी लपटों में लपेटकर दसों दिशाओं में धरती को जला रही है।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः) विकचेति ॥ पावकेन दवाग्निना दिशि दिशि भूमयः परि सामस्त्येन दग्धाः परिदग्धाः । किंभूतेन पावकेन — विकचं विकसितं यन्नवं नूतनं कुसुम्भं पुनर्यत् स्वच्छं निर्मलं सिन्दूरं तद्वद् भाः कान्तिर्यस्य तेन । पुनः किं भूतेन — तूर्णं शीघ्रम् प्रबलो योऽसौ पवनस्तेनोद्धूतः प्रकटितो वेगो यस्य तेन । पुनः किं भूतेन — तनवः कृशाः सुक्ष्माः विकचाः विकस्वराश्च ये लताग्रा लतानामग्रप्रदेशाश्च तनुविकचलताग्रास्तेषामालिङ्गनं तत्र व्याकुलस्तेन । तरुविटपलता इति वा पाठः । तत्र तरुणां विटपाः शाखाश्च लताग्राश्च तेषामालिङ्गनं तेन व्याकुलो भयकृत् तेन ॥
चन्द्रिकाटीका (मणिरामः) विकचेति ॥ विकचः प्रफुल्लो नवो नूतनः कुसुम्भस्तद्वत् स्वच्छो निर्मलो यः सिन्दूरस्तस्य भा इव भाः कान्तिर्यस्य तेन तथोक्तेन । प्रबलस्य पवनस्य वेगेनोद्भूतः सम्भूतो वेगो यस्य तेन तथोक्तेन । तटविटपानां तीरस्थवृक्षशाखानां लताग्राणां चालिङ्गनेन परिरम्भणेन व्याकुल आकुलस्तेन तथोक्तेन पावकेन वह्निना दिशि दिशि प्रतिदिशं तूर्णं सत्वरं भूमयः परिदग्धाः संदग्धा इत्यर्थः ॥
पदच्छेदः AI
विकचनवकुसुम्भस्वच्छसिन्दूरभासाविकचनवकुसुम्भस्वच्छसिन्दूरभास् (३.१) glowing like fresh safflower or bright vermilion
प्रबलपवनवेगोद्भूतवेगेनप्रबलपवनवेगउद्भूत (उद्√भू+क्त)वेग (३.१) whose speed is increased by the force of strong winds
तूर्णम्तूर्णम् swiftly
तटविटपलताग्रालिङ्गनव्याकुलेनतटविटपलताअग्रआलिङ्गनव्याकुल (वि+आ√कुल्+क्त, ३.१) eager to embrace the tops of riverbank trees and creepers
दिशिदिश् (७.१) in direction
दिशिदिश् (७.१) after direction
परिदग्धाःपरिदग्ध (परि√दह्+क्त, १.३) are scorched
भूमयःभूमि (१.३) the lands
पावकेनपावक (३.१) by the fire
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
वि कु सु म्भ स्व च्छ सि न्दू भा सा
प्र वे गो द्भू वे गे तू र्णम्
वि ता ग्रा लि ङ्ग व्या कु ले
दि शि दि शि रि ग्धा भू यः पा के
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.