Loading data... On slow networks this could take a few minutes.
100%

श्वसिति विहगवर्गः शीर्णपर्णद्रुमस्थः
कपिकुलमुपयाति क्लान्तमद्रेर्निकुञ्जम् ।
भ्रमति गवययूथः सर्वतस्तोयमिच्छ-
ञ्शरभकुलमजिह्मं प्रोद्धरत्यम्बु कूपात् ॥

अन्वयः AI शीर्ण-पर्ण-द्रुम-स्थः विहग-वर्गः श्वसिति । क्लान्तम् कपि-कुलम् अद्रेः निकुञ्जम् उपयाति । तोयम् इच्छन् गवय-यूथः सर्वतः भ्रमति । शरभ-कुलम् कूपात् अजिह्मम् अम्बु प्रोद्धरति ।
Summary AI The flock of birds, perched on trees with withered leaves, pants for breath. The exhausted troop of monkeys retreats to a mountain grove. The herd of wild oxen roams everywhere, seeking water. A herd of Sharabhas (mythical beasts) draws water straight up from a well.
सारांश AI पत्तों से रहित पेड़ों पर पक्षी हाँफ रहे हैं, थके हुए बंदर पहाड़ी निकुंजों की ओर जा रहे हैं, वनगायों का झुंड पानी खोज रहा है और शरभ कुओं से जल निकालने का प्रयास कर रहे हैं।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः) श्वसितीति ॥ विहगवर्गः विहगानां वर्गः पक्षिणां वर्गः । सजातीयसमूहो वर्गः। शीर्णानि पतितानि पर्णानि येषां ते एवंविधा ये द्रुमा वृक्षास्तेषामन्तर्मध्ये वसति । पुनः क्लान्तं खेदखिन्नं कपिकुलं कपीनां वानराणां कुलं कपिकुलम् । अर्द्रेः पर्व्तस्य निकुञ्जं वनमुपयाति वनं गच्छतीत्यर्थः । पुनर्गवयानामरण्यगवानां युथः समूहस्तोयं जलमिच्छन् सन् । सर्वतः सर्वस्यां दिशि भ्रमति । पुनः शरभाणामष्टापदजीवानां कुलमजिह्मं कुटिलं यथा स्यात् तथा कूपादम्बु पानीयं प्रोद्धरति निष्कासयतीत्यर्थः ॥
चन्द्रिकाटीका (मणिरामः) श्वसितीति ॥ शीर्णानि गलितानि पर्णानि पत्राणि यस्य स तादृशो यो द्रुमो वृक्षस्तत्र तिष्ठतीति स तथोक्तो विहगवर्गः पक्षिसमुदायः। श्वसिति श्वासोच्छ्वासं करोति । क्लान्तं म्लानं कपिकुलं वानरसमूहोऽर्द्रेः पर्वतस्य निकुञ्जं लतागृहम् । निकुञ्जकुञ्जौ वा क्लीवे इत्यमरः (अमरकोशः २.३.९ ) । उपयाति गच्छतीत्यर्थः । गवया गोसदृशमृगविशेषास्तेषां यूथः समुदायस्तोयं जलमिच्छन् सर्वत इतस्ततो भ्रमति । अजिह्मकुटिलं शरभानां कुलं शरभा अषटटापदपशुविशेषास्तेषां कुलं समुदायः कूपादम्बु जलं प्रोद्धरति गृह्णातीत्यर्थः ॥
पदच्छेदः AI
श्वसितिश्वसिति (√श्वस् कर्तरि लट् (परस्मै.) प्र.पु. एक.) pants
विहगवर्गःविहगवर्ग (१.१) the flock of birds
शीर्णपर्णद्रुमस्थःशीर्ण (√शॄ+क्त)पर्णद्रुमस्थ (√स्था+क, १.१) perched on trees with withered leaves
कपि कुलम्कपिकुल (१.१) the troop of monkeys
उपयातिउपयाति (उप√या कर्तरि लट् (परस्मै.) प्र.पु. एक.) retreats to
क्लान्तम्क्लान्त (√क्लम्+क्त, १.१) exhausted
अद्रेःअद्रि (६.१) of the mountain
निकुञ्जम्निकुञ्ज (२.१) a grove
भ्रमतिभ्रमति (√भ्रम् कर्तरि लट् (परस्मै.) प्र.पु. एक.) roams
गवययूथःगवययूथ (१.१) the herd of wild oxen
सर्वतःसर्वतस् everywhere
तोयम्तोय (२.१) water
इच्छन्इच्छत् (√इष्+शत्रृ, १.१) seeking
शरभकुलम्शरभकुल (१.१) a herd of Sharabhas
अजिह्मम्जिह्म (२.१) straight up
प्रोद्धरतिप्रोद्धरति (प्र+उद्√हृ कर्तरि लट् (परस्मै.) प्र.पु. एक.) draws
अम्बुअम्बु (२.१) water
कूपात्कूप (५.१) from a well
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
श्व सि ति वि र्गः शी र्ण र्ण द्रु स्थः
पि कु मु या ति क्ला न्त द्रे र्नि कु ञ्जम्
भ्र ति यू थः र्व स्तो मि च्छ
ञ्श कु जि ह्मं प्रो द्ध त्य म्बु कू पात्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.