Loading data... On slow networks this could take a few minutes.
100%

पटुतरदवदाहोच्छुष्कसस्य प्ररोहाः
परुषपवनवेगोत्क्षिप्तसंशुष्कपर्णाः ।
दिनकरपरितापक्षीणतोयाः समन्ता-
द्विदधति भयमुच्चैर्वीक्ष्यमाणा वनान्ताः ॥

अन्वयः AI पटुतर-दव-दाह-उच्छुष्क-सस्य-प्ररोहाः, परुष-पवन-वेग-उत्क्षिप्त-संशुष्क-पर्णाः, दिनकर-परिताप-क्षीण-तोयाः, वीक्ष्यमाणाः वन-अन्ताः समन्तात् उच्चैः भयम् विदधति ।
Summary AI The forest regions, when seen, inspire great fear all around. Their new shoots are withered by fierce forest fires, their dry leaves are tossed about by harsh winds, and their water sources are depleted by the sun's heat.
सारांश AI भीषण दावानल से सूखी फसलों, तेज हवा से उड़ते सूखे पत्तों और सूर्य की तपिश से सूखे जलाशयों वाले वन के ये प्रांत देखने मात्र से ही मन में भय उत्पन्न कर रहे हैं।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः) पटुतरेति ॥ वनानामन्ताः वनान्ताः प्रान्ता वीक्ष्यमाणाः सन्तः उच्चैरतिशयेन भयं विदधति भयं कुर्वन्तीत्यर्थः । किं भूताः वनान्ताः — पटुतरोऽधिको योऽसौ दवदाहो दवाग्निसम्बन्धी दाहस्तेन प्लुष्टा दग्धाः सस्यानां शष्पाणां प्ररोहा येषु ते । पुनः किं भूताः — परुषः कठोरो योऽसौ पवनो वायुस्तस्य वेगाधिक्यं तेनोत्क्षिप्तानि उच्छालितानि शुष्कपर्णानि येषां ते । पुनः किं भूताः — समन्तात् सर्वथा दिनकरस्य सूर्यस्य परितापः तस्मात् क्षीणानि स्वल्पीभूतानि शुष्काणि वा तोयानि येषु ते ॥
चन्द्रिकाटीका (मणिरामः) पटुतरेति ॥ पटुतरोऽतिसमर्थो यो दवो दावस्तस्य दावोच्छुष्काः दहनोच्छुष्काः सस्यप्ररोहाः सस्याङ्कुरा येषु ते तथोक्ताः । परुषो निष्ठुरो यः पवनो वायुस्तस्य वेगेनोत्क्षिप्तान्युर्ध्वक्षिप्तानि संशुष्कानि पर्णानि पत्राणि येषु ते तथोक्ताः । समन्तादितस्ततो दिनकरस्य परितापेनातपेन क्षीणानि तोयानि येषु ते तथोक्ताः उच्चैरुच्चप्रदेशतो वीक्ष्यमाणा अवलोक्यमाना वनान्ता अरण्यप्रान्ता भयं विदधतीत्यर्थः । मालिनीवृत्तमेतत् । तल्लक्षणं तु ननमययुतेयं मालिनी भोगिर्लोकैः इति ॥
पदच्छेदः AI
पटुतरदवदाहोच्छुष्कसस्यप्ररोहाःपटुतर–दवदाहउच्छुष्क (उद्√शुष्+क्त)सस्यप्ररोह (१.३) whose new shoots are withered by fierce forest fires
परुषपवनवेगोत्क्षिप्तसंशुष्कपर्णाःपरुषपवनवेगउत्क्षिप्त (उद्√क्षिप्+क्त)संशुष्क (सम्√शुष्+क्त)पर्ण (१.३) whose dry leaves are tossed by harsh winds
दिनकरपरितापक्षीणतोयाःदिनकरपरितापक्षीण (√क्षि+क्त)तोय (१.३) whose water is depleted by the sun's heat
समन्तात्समन्तात् all around
विदधतिविदधति (वि√धा कर्तरि लट् (परस्मै.) प्र.पु. बहु.) cause
भयम्भय (२.१) fear
उच्चैःउच्चैस् great
वीक्ष्यमाणाःवीक्ष्यमाण (वि√ईक्ष्+शानच्, १.३) being seen
वनान्ताःवनअन्त (१.३) the forest regions
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
टु दा हो च्छु ष्क स्य प्र रो हाः
रु वे गो त्क्षि प्त सं शु ष्क र्णाः
दि रि ता क्षी तो याः न्ता
द्वि ति मु च्चै र्वी क्ष्य मा णा ना न्ताः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.