सफेनलालावृतवक्त्रसम्पुटं
विनिःसृतालोहितजिह्वमुन्मुखम् ।
तृषाकुलं निःसृतमद्रिगह्वरा-
दवेक्षमाणं महिषीकुलं जलम् ॥

अन्वयः AI अहं स-फेन-लाल-आवृत-वक्त्र-सम्पुटम्, विनिःसृत-आलोहित-जिह्वम्, उन्मुखम्, तृषा-आकुलम्, अद्रि-गह्वरात् निःसृतम्, जलम् अवेक्षमाणम् महिषी-कुलम् पश्यामि ।
Summary AI A herd of buffaloes, their mouths covered in foamy saliva, their reddish tongues hanging out, faces upturned, afflicted by thirst, has emerged from a mountain cave, looking for water.
सारांश AI मुख पर फेन और लार लपेटे, अपनी लाल जीभ बाहर निकाले हुए और प्यास से व्याकुल भैंसों का झुंड जल की खोज में पहाड़ की गुफाओं से बाहर निकल रहा है।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः) सफेनेति ॥ महिष्याः कुलं महिषीकुलमदिग्रह्वरात् । अर्द्रेः पर्वतस्य गह्वरः कन्दरा तस्मान्निःसृतं निर्गतं । किं भूतं महिषीकुलम् — सफेनञ्च तल्लालाकुलञ्च सफेनलालाकुलमीदृशं वक्त्रसम्पुटं मुखसङ्कोचं सम्पुटं यस्य तत् । पुनः किंभूतम् — विनिर्याता मुखाद् बहिर्निर्गता आ समन्तात् लोहिता रक्ता जिह्वा यस्य तत् । पुनः किंभूतम् — उन्मुखं उद् ऊर्ध्वीकृतं मुखं येन तत् । पुनः — तृषा तृष्णया आकुलं व्याप्तं । पुनः किं — जलमवेक्षमाणम् अवेक्षते इत्यवेक्ष्यमाणम् । वंशस्थवृत्तानीमानि। तल्लक्षणं — `जतौ तु वंशस्थ मुदीरितं जरौ ॥
चन्द्रिकाटीका (मणिरामः) सफेनेति ॥ सफेनं लोलं चञ्चलमायतं दीर्घं, वक्त्रसम्पुटं मुखसम्पुटं यस्य तत् तथोक्तम् । विनिःसृता निर्गता आसमन्ताल्लोहिता रक्ता जिह्वा यस्य तत् तथोक्तमुन्मुखमूर्ध्वमुखम् तृषा पिपासमाकुलं व्याकुलमतएव जलं सलिलमवेक्ष्यमाणं निरीक्षमाणं महिषीकुलमद्रिगह्वराद् गिरिगह्वरान्निःसृतं निर्गलमित्यर्थः । अद्रिगोत्रगिरिर्ग्रावा इत्यमरः (अमरकोशः २.३.१ )
पदच्छेदः AI
सफेनलालावृतवक्त्रसम्पुटम्सफेनलालाआवृत (आ√वृ+क्त)वक्त्रसम्पुट (२.१) whose mouth is covered in foamy saliva
विनिःसृतालोहितजिह्वम्विनिःसृत (वि+निस्√सृ+क्त)आलोहितजिह्वा (२.१) from which a reddish tongue hangs out
उन्मुखम्उद्मुख (२.१) with face upturned
तृषाकुलम्तृष्आकुल (२.१) afflicted by thirst
निःसृतम्निःसृत (निस्√सृ+क्त, २.१) emerged
अद्रिगह्वरात्अद्रिगह्वर (५.१) from a mountain cave
अवेक्षमाणम्अवेक्षमाण (अव√ईक्ष्+शानच्, २.१) looking for
महिषीकुलम्महिषीकुल (२.१) a herd of buffaloes
जलम्जल (२.१) water
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
फे ला ला वृ क्त्र म्पु टं
वि निः सृ ता लो हि जि ह्व मु न्मु खम्
तृ षा कु लं निः सृ द्रि ह्व रा
वे क्ष मा णं हि षी कु लं लम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.