Loading data... On slow networks this could take a few minutes.
100%

निशाः शशाङ्कक्षतनीलराजयः
क्वचिद्विचित्रं जलयन्त्रमन्दिरम् ।
मणिप्रकाराः सरसं च चन्दनं
शुचौ प्रिये यान्ति जनस्य सेव्यताम् ॥

अन्वयः AI प्रिये, शुचौ शशाङ्क-क्षत-नील-राजयः निशाः, क्वचित् विचित्रम् जलयन्त्र-मन्दिरम्, मणि-प्रकाराः, सरसम् चन्दनम् च जनस्य सेव्यताम् यान्ति ।
Summary AI O beloved, in summer, nights whose darkness is dispelled by the moon, mansions with wonderful water fountains, various gems, and moist sandalwood paste become enjoyable for people.
सारांश AI इस ऋतु में चांदनी रातें, जल-यंत्रों से युक्त शीतल भवन, विविध रत्न और सुगंधित चंदन लोगों के लिए अत्यंत सुखद और सेवन योग्य हो जाते हैं।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः) निशेति ॥ हे प्रिये शुचावाषाढे जनस्य लोकस्यैतानि वस्तूनि सेवनार्हः सेव्यस्तस्यभावः सेव्यता तां सेव्यतां सेव्यभावं यान्ति प्राप्नुवन्ति । एतानि वस्तूनि जनः सेवत इत्यर्थः । एतानि कानि — निशाः रात्रयः । किम्भूताः निशाः — शशाङ्केन चन्द्रेण क्षताः खण्डिताः नीलराजयोऽन्धकारश्रेणयो यासां ताः । पुनः — सरसं रसोपलक्षितं अर्थात् घृष्टं चन्दनं जनस्य सेव्यतां याति । ग्रीष्मर्तावेतानि वस्तूनि सुखदानि भवन्तीत्यर्थः ॥
चन्द्रिकाटीका (मणिरामः) निशा इति ॥ हे प्रिये क्वचिच्छशाङ्केन चन्द्रमसा कर्त्रा क्षत्ता दूरीकृता नीलराजयस्तमः पङ्क्तयो यासां तास्तथोक्ता निशा रात्रयः । निशा निशीथिनी रात्रिः इत्यमरः (अमरकोशः १.४.४ ) । क्वचित् विचित्रं जलयन्त्रेण युक्तं मन्दिरं गृहं । क्वचिन्मणिप्रकारा मणिविशेषेणाश्चन्द्रकान्तादयः । क्वचित् सरसं सान्द्रं चन्दनञ्च शुचौ ग्रीष्मकाले जनस्य लोकस्य सेव्यतामुपभोगविषयतां यान्तीति वचनविपरिणामेनान्वयः
पदच्छेदः AI
निशाःनिशा (१.३) Nights
शशाङ्कक्षतनीलराजयःशशाङ्कक्षतनीलराजि (१.३) whose darkness is dispelled by the moon
क्वचित्क्वचित् somewhere
विचित्रम्विचित्र (१.१) wonderful
जलयन्त्रमन्दिरम्जलयन्त्रमन्दिर (१.१) a mansion with water fountains
मणिप्रकाराःमणिप्रकार (१.३) various kinds of gems
सरसम्सरस (२.१) moist
and
चन्दनम्चन्दन (२.१) sandalwood paste
शुचौशुचि (७.१) in summer
प्रियेप्रिया (८.१) O beloved
यान्तियान्ति (√या कर्तरि लट् (परस्मै.) प्र.पु. बहु.) become
जनस्यजन (६.१) of people
सेव्यताम्सेव्यता (२.१) enjoyable
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
नि शाः शा ङ्क क्ष नी रा यः
क्व चि द्वि चि त्रं न्त्र न्दि रम्
णि प्र का राः सं न्द नं
शु चौ प्रि ये या न्ति स्य से व्य ताम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.