प्रचण्डसूर्यः स्पृहणीयचन्द्रमाः
सदावगाहक्षतवारिसंचयः ।
दिनान्तरम्योऽभ्युपशान्तमन्मथो
निदाघकालोऽयमुपागतः प्रिये ॥
प्रचण्डसूर्यः स्पृहणीयचन्द्रमाः
सदावगाहक्षतवारिसंचयः ।
दिनान्तरम्योऽभ्युपशान्तमन्मथो
निदाघकालोऽयमुपागतः प्रिये ॥
सदावगाहक्षतवारिसंचयः ।
दिनान्तरम्योऽभ्युपशान्तमन्मथो
निदाघकालोऽयमुपागतः प्रिये ॥
अन्वयः
AI
प्रिये, अयम् प्रचण्डसूर्यः, स्पृहणीयचन्द्रमाः, सदा-अवगाह-क्षत-वारि-संचयः, दिन-अन्त-रम्यः, अभ्युपशान्त-मन्मथः निदाघकालः उपागतः ।
Summary
AI
O beloved, this summer season has arrived, characterized by a fierce sun, a desirable moon, water reservoirs diminished by constant bathing, lovely evenings, and subdued passion.
सारांश
AI
हे प्रिये, ग्रीष्म ऋतु आ गई है, जिसमें सूर्य प्रचंड और चंद्रमा प्रिय हो जाता है। जल में निरंतर स्नान से जलाशयों का पानी कम हो जाता है, शामें सुखद होती हैं और कामेच्छा शांत हो जाती है।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः)
इदानीं व्याख्यालेशः प्रारभ्यते। तत्रादौ ग्रीष्मऋतुवर्णनसूचकं प्रथमसर्गस्यादिमं काव्यमाह प्रचण्डेति॥ अथ व्याख्या — कविः शृङ्गाररसमुद्दिश्य स्वस्त्रियं ब्रूते - हे प्रिये वल्लभे निदाघकालो ग्रीष्मकालः समुपागतः उपस्थितः । कथंभूतो निदाघकालः - प्रचण्ड सोढुमशक्यः सूर्यो यत्र सः । पुनः कथंभूतः - स्पृहणीयः सर्वेषां वाञ्छनीयश्चन्द्रमा यत्र सः । पुनः कथंभूतः - सदा निरन्तरम्वगाहेन स्नानादिकरणेन क्षतः खण्डितोऽर्थात् शुष्को वारिसञ्चयस्तडागादिर्यत्र स तथा । पुनः कथंभूतः - दिनान्तरम्यः दिनस्यान्ता दिनान्ताः सन्ध्यावसरास्त एव रम्या यत्र सः । अथवा दिनान्ते रम्यो रमणीयो दिनान्तरम्यः । पुनः किंभूतः - अभ्युपशान्तः शान्तभावमुपगतो मन्मथः कामो यत्र सः । तथा
विशेषसूर्यः स्पृहणीयचन्द्रमाः इति वा पाठः । तत्र विशेषोऽन्य्स्यापेक्षया विशेषतेजाः सूर्यो य़त्र सः । अनेन विशेषसुरतानर्हः कालोऽयमिति सूचितः ।
चन्द्रिकाटीका (मणिरामः)
प्रचण्डेति ॥ प्रचण्ड उग्रः सूर्यो दिवाकरो यस्मिन् स तथोक्तः । स्पृहणीयो वाज्छनीयश्चन्द्रमाश्चन्द्रो यस्मिन् स तथोक्तः ।
हिमांशुश्चन्द्रमाश्चन्द्रः इत्यमरः (अमरकोशः १.३.१५ ) । सदा निरन्तरमवगाहेन निमज्जनपूवंकस्नानेन क्षतः क्षीणो वारिसञ्चयो जलसमूहो यस्मिन् तथोक्तः । दिनान्तः संध्याकालो रम्यो रमणीयो यस्मिन्स तथोक्तः । दिवसे सूर्यसत्त्वादौष्ण्यजनितमाकृलत्वं चन्द्रोदयादिना च शीतलत्वात् तस्य रम्यत्वम् । अभि समन्तात् शान्तो मन्मथः कन्दर्पो यस्मिन् स तथोक्तः । वसन्ते द्विगुणः कामः इति वसन्तापगमे कामोपशान्तिः । अयं निदाघकालो ग्रीष्मकाल उपागतः संप्राप्तः । हे प्रिये । वंशस्थवृत्तमेतत् — जतौ तु वंशस्थमुदीरितं जरो इति लक्षणात् ॥
पदच्छेदः
AI
| प्रचण्डसूर्यः | प्रचण्ड–सूर्य (१.१) | in which the sun is fierce |
| स्पृहणीयचन्द्रमाः | स्पृहणीय (√स्पृह्+अनीयर्)–चन्द्रमस् (१.१) | in which the moon is desirable |
| सदावगाहक्षतवारिसंचयः | सदा–अवगाह–क्षत–वारि–संचय (१.१) | in which the water reservoirs are diminished by constant bathing |
| दिनान्तरम्यः | दिन–अन्त–रम्य (१.१) | in which the evenings are lovely |
| अभ्युपशान्तमन्मथः | अभ्युपशान्त (अभि+उप√शम्+क्त)–मन्मथ (१.१) | in which passion is subdued |
| निदाघकालः | निदाघ–काल (१.१) | the summer season |
| अयम् | इदम् (१.१) | this |
| उपागतः | उपागत (उप+आ√गम्+क्त, १.१) | has arrived |
| प्रिये | प्रिया (८.१) | O beloved |
छन्दः
वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ | १२ |
|---|---|---|---|---|---|---|---|---|---|---|---|
| प्र | च | ण्ड | सू | र्यः | स्पृ | ह | णी | य | च | न्द्र | माः |
| स | दा | व | गा | ह | क्ष | त | वा | रि | सं | च | यः |
| दि | ना | न्त | र | म्यो | ऽभ्यु | प | शा | न्त | म | न्म | थो |
| नि | दा | घ | का | लो | ऽय | मु | पा | ग | तः | प्रि | ये |
| ज | त | ज | र | ||||||||
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.