समुद्धृताशेषमृणालजालकं
विपन्नमीनं द्रुतभीतसारसम् ।
परस्परोत्पीडनसंहतैर्गजैः
कृतं सरः सान्द्रविमर्दकर्दमम् ॥

अन्वयः AI परस्पर-उत्पीडन-संहतैः गजैः समुद्धृत-अशेष-मृणाल-जालकम्, विपन्न-मीनम्, द्रुत-भीत-सारसम् सरः सान्द्र-विमर्द-कर्दमम् कृतम् ।
Summary AI A lake, with all its lotus stalks uprooted, its fish perished, and its cranes fled in fear, has been turned into thick, churned mud by elephants jostling and pressing against each other.
सारांश AI हाथियों के समूह ने परस्पर रगड़ और भार से तालाब के कमलों को उखाड़ दिया है, मछलियां मर गई हैं और जल कीचड़ में बदल गया है।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः) समुद्धृतेति ॥ गजैर्हस्तिभिः सरः तडागः सान्द्रः सघनो विमर्देनावगाहेन कर्दमो यत्र तदीदृशं तत् कृतम् । किं भूतं सरः — समुद्धतान्युत्पातितान्यशेषमृणालानां समस्तकमलतन्तूनां जालकानि समूहानि यस्मात् तत् । पुनः किं भूतं — विपन्ना स्वेदखिन्ना उपविष्टा वा मीना यत्र तद्विपन्नमीनं । अद्भुतवीतासारसं निषन्नमीनं च तदद्भुतवीतरारसञ्च तत् । किंभूतैर्गजैः — परस्परमुत्पीडनेन संहता एकत्रीभूताः परस्परोत्पीडनसंहतास्तैः ॥
चन्द्रिकाटीका (मणिरामः) समुद्धृतेति ॥ समुद्धृतं निष्कासितमशेषं सम्पूर्णं मृणालजालकं विससमूहो यस्मात् तत् तथोक्तं विपन्नमीनं समापन्नमीनं । द्रुताः पलायिता भीताश्च ते सारसाश्च यस्मात् तत् तथोक्तं सरः सरोवरं परस्परोत्पीडने संहतैः संलग्नैर्गजैः सान्द्रो निविडो विमर्दः सङ्ग्रामः कर्दम: पङ्कश्च यस्मिन् तत् तथा । यद्वा सान्द्रो निविडो विमर्देन सङ्ग्रामेण कर्दमः पङ्को यस्मिन् तत् तथाभूतमित्यर्थः ॥
पदच्छेदः AI
समुद्धृताशेषमृणालजालकम्समुद्धृत (सम्+उद्√हृ+क्त)अशेषमृणालजालक (२.१) from which all lotus stalks are uprooted
विपन्नमीनम्विपन्न (वि√पद्+क्त)मीन (२.१) in which the fish have perished
द्रुतभीतसारसम्द्रुत (√द्रु+क्त)भीत (√भी+क्त)सारस (२.१) from which the cranes have fled in fear
परस्परोत्पीडनसंहतैःपरस्परउत्पीडन (उद्√पीड्+ल्युट्)संहत (सम्√हन्+क्त, ३.३) by those pressed together by mutual jostling
गजैःगज (३.३) by elephants
कृतम्कृत (√कृ+क्त, १.१) was made
सरःसरस् (१.१) a lake
सान्द्रविमर्दकर्दमम्सान्द्रविमर्दकर्दम (१.१) into thick, churned mud
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
मु द्धृ ता शे मृ णा जा कं
वि न्न मी नं द्रु भी सा सम्
स्प रो त्पी सं तै र्ग जैः
कृ तं रः सा न्द्र वि र्द र्द मम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.