Loading data... On slow networks this could take a few minutes.
100%

विवस्वता तीक्ष्णतरांशुमालिना
सपङ्कतोयात्सरसोऽभितापितः ।
उत्प्लुत्य भेकस्तृषितस्य भोगिनः
फणातपत्रस्य तले निषीदति ॥

अन्वयः AI तीक्ष्णतर-अंशु-मालिना विवस्वता स-पङ्क-तोयात् सरसः अभितापितः भेकः उत्प्लुत्य तृषितस्य भोगिनः फणा-आतपत्रस्य तले निषीदति ।
Summary AI A frog, scorched by the sun with its intensely sharp rays, leaps out of a muddy pond and sits in the shade under the hood-umbrella of a thirsty serpent.
सारांश AI प्रचंड गर्मी से व्याकुल मेंढक तालाब से बाहर निकलकर प्यासे सांप के फण की छाया में बैठ गया है, जो उसके लिए छाते के समान है।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः) विवस्वता ॥ भेको मण्डूकस्तृषितस्य तृषाकान्तस्य भोगिनः सर्पस्य फणातपत्रस्य फणैवातपत्रं छत्रं फणातपत्रं तस्य तले निषीदत्युपविशति । किं कृत्वा — सरसतडागादुत्प्लुतस्य निःसृत्य । किं विशिष्टात् सरसः — हि निश्चयं विवस्वता सूर्येणसह्ययोयात् असह्यं सोढुमशक्यम् अर्थात् तप्तं तोयं यस्य तत् तथा तस्मात् । किं भूतेन विवस्वता — तीक्ष्णतरांशुमालिना । अतिशयेन तीक्ष्णग्रीष्मत्वात् तीव्रा येऽंशवः किरणास्तीक्ष्णतरांशवस्तान् मलते धारयतीति तथा तेन । मल मल्लधारणे धातुः (भ्वादि ४९४-४९५) । कथं भूतो भेकोऽभितापितो विवस्वतेत्यनुवर्त्तनीयम् । अनेन घर्म्मेबाहूल्यं सूचितम् ॥
चन्द्रिकाटीका (मणिरामः) विवस्वतेति ॥ तीक्ष्णतरैः प्रचण्डतरैरंशुभिः किरणैर्मलिते शोभते तथोक्तेन विवस्वता सूर्येणाभितापितो भेको मण्डूकः । भेको मण्डूकवर्षाभूः इत्यमरः (अमरकोशः १.१०.२४ ) । पङ्कतोयेन कर्दमजलेन सहितं युक्तं तस्मात् तथोक्तात् सरसः सरोवरादुत्प्लुतस्य तृषितस्य भोगिनः पन्नगस्य । डरगः पन्नगो भोगी इत्यमरः (अमरकोशः १.८.८ ) । फणैवातपत्रं छत्रं तस्य तलेऽधोभागे निषीदति । तिष्ठतीत्यर्थः ।
पदच्छेदः AI
विवस्वताविवस्वत् (३.१) by the sun
तीक्ष्णतरांशुमालिनातीक्ष्णतरअंशुमालिन् (३.१) with intensely sharp rays
सपङ्कतोयात्पङ्कतोय (५.१) muddy water
सरसःसरस् (५.१) from a pond
अभितापितःअभितापित (अभि√तप्+णिच्+क्त, १.१) scorched
उत्प्लुत्यउत्प्लुत्य (उद्√प्लु+ल्यप्) having leaped out
भेकःभेक (१.१) a frog
तृषितस्यतृषित (√तृष्+क्त, ६.१) of a thirsty
भोगिनःभोगिन् (६.१) serpent
फणातपत्रस्यफणाआतपत्र (६.१) of the hood-umbrella
तलेतल (७.१) in the shade
निषीदतिनिषीदति (नि√सद् कर्तरि लट् (परस्मै.) प्र.पु. एक.) sits
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
वि स्व ता ती क्ष्ण रां शु मा लि ना
ङ्क तो या त्स सो ऽभि ता पि तः
त्प्लु त्य भे स्तृ षि स्य भो गि नः
णा त्र स्य ले नि षी ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.