सभद्रमुस्तं परिशुष्ककर्दमं
सरः खनन्नायतपोतृमण्डलैः ।
रवेर्मयूखैरभितापितो भृशं
वराहयूथो विशतीव भूतलम् ॥

अन्वयः AI रवेः मयूखैः भृशम् अभितापितः वराह-यूथः आयत-पोतृ-मण्डलैः स-भद्र-मुस्तम् परिशुष्क-कर्दमम् सरः खनन् भू-तलम् विशति इव ।
Summary AI A herd of wild boars, severely scorched by the sun's rays, digs up a lake bed—which has dried mud and Bhadramusta grass—with their long snouts, appearing as if they are trying to enter the earth itself.
सारांश AI धूप से तपे हुए जंगली सुअरों का झुंड मोथा घास वाले तालाबों की सूखी कीचड़ को अपनी थूथन से खोद रहा है, मानो वे धरती के भीतर समाना चाहते हों।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः) सभद्रेति ॥ ॥ वराहयूथः वराहाणां शूकराणां यूथः समूहो भूतलं पृथ्वीतलं विशतीव प्रवेशं करोतीव । किं कुर्वन् । आयता दीर्घा ये पोतृमण्डला मुखाग्रमण्डलास्तथा तैः सरः खनन् । कथं भूतं सारः — सभद्रमुस्तम् । भद्रमुस्तेन गुन्द्रया सह वर्तते इति तत् । पुनः कथं भूतं — परि सामस्त्येन पाण्डुः श्वेतवर्णः अर्थाच्छुष्कः कर्दमो पङ्को यत्र तत् तथा तत् । कथं भूतः वराहयूथः — प्रदीप्ता सोढुमशक्या भाः कान्तिर्यस्य स प्रदीप्तभास्तेन रविणा सूर्येण अभितापितः ॥
चन्द्रिकाटीका (मणिरामः) सभद्रेति ॥ भद्रमुस्तेन भद्रमोथा इति प्रसिद्धेन सहितं परिशुष्कः कर्दमः पङ्को यस्मिस्तत्तथोक्तं सरः सरोवरमायतानि दीर्घाणि यानि पोतृमण्डानि तैः कृत्वा खनन् । खेः सूर्यस्य मयूखैः किरणैभृशंअत्यन्तमभितापितः सन्तापितो वराहयूथः सूकर समूहः । वराहः सूकरो धृष्टिः इत्यमरः (अमरकोशः २.५.३ ) । भूतलं भूगर्भं विशतौव प्रविशतीवेत्युतप्रेक्षा ॥
पदच्छेदः AI
सभद्रमुस्तम्भद्रमुस्त (२.१) with Bhadramusta grass
परिशुष्ककर्दमम्परिशुष्क (परि√शुष्+क्त)कर्दम (२.१) with dried mud
सरःसरस् (२.१) a lake bed
खनन्खनत् (√खन्+शत्रृ, १.१) digging
आयतपोतृमण्डलैःआयत (आ√यम्+क्त)पोतृमण्डल (३.३) with long snouts
रवेःरवि (६.१) of the sun
मयूखैःमयूख (३.३) by the rays
अभितापितःअभितापित (अभि√तप्+णिच्+क्त, १.१) scorched
भृशम्भृशम् severely
वराहयूथःवराहयूथ (१.१) a herd of wild boars
विशतिविशति (√विश् कर्तरि लट् (परस्मै.) प्र.पु. एक.) enters
इवइव as if
भूतलम्भूतल (२.१) the earth
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
द्र मु स्तं रि शु ष्क र्द मं
रः न्ना पो तृ ण्ड लैः
वे र्म यू खै भि ता पि तो भृ शं
रा यू थो वि ती भू लम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.