हुताग्निकल्पैः सवितुर्गभस्तिभिः
कलापिनः क्लान्तशरीरचेतसः ।
न भोगिनं घ्नन्ति समीपवर्तिनं
कलापचक्रेषु निवेशिताननम् ॥

अन्वयः AI सवितुः हुत-अग्नि-कल्पैः गभस्तिभिः क्लान्त-शरीर-चेतसः कलापिनः समीप-वर्तिनम् कलाप-चक्रेषु निवेशित-आननम् भोगिनम् न घ्नन्ति ।
Summary AI Peacocks, their bodies and minds exhausted by the sun's rays which are like sacrificial fires, do not kill a nearby serpent that has hidden its head in the circle of their tail feathers.
सारांश AI अत्यधिक गर्मी के कारण मोर सुस्त हो गए हैं और वे अपने पंखों की छाया में सिर छिपाकर बैठे हुए सांप पर भी आक्रमण नहीं कर रहे हैं।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः) हुता ॥ कलापिनो मयूरा भोगिनं सर्पं न घ्नन्ति । किं भूताः कलापिनः — सवितुः सूर्यस्य मरीचिभिरुस्रैः क्लान्तं खेदोपहतं शरीरस्य चेतो येषां ते तथा । किं भूतैः मरीचिभिः — हुताग्निकल्पैः हुतश्चासावग्निश्च हुताग्निः ईषद्धुताग्निवदिति हुताग्निकल्पास्तैः । ईषदपरिसमाप्तौ कल्पब्देश्यदेशीयरः (अष्टाध्यायी ५.३.६७ ) हुतो योऽसौ अग्निर्हुताग्निस्तेन कल्पास्तुल्यास्तैः । किं भूतं भोगिनं — समीपे वर्तते यः सः समीपवर्ती तम् । पुनः — कलापचक्रेषु बहिर्मण्डलेषु निवेशितं स्थापितम् आननं येन तं निवेशिताननम् । अत्र मयूरा अपि हततेजसो जाता इत्यर्थः ॥
चन्द्रिकाटीका (मणिरामः) हुताग्निकल्पैरिति ॥ सवितुः सूर्यस्य हुताग्निकल्पैर्हुतश्चसावग्निश्च तत्कल्पैस्तत्सदृशैः । तद्वदत्यन्तप्रचण्डैरिति यावत् । गभस्तिभिरंशुभिः क्लान्तं म्लानं शरीरं वपुश्चेतश्च येषां ते तथोक्ताः कलापिनो मयूराः कलापचक्रेषु बर्हमण्डलेषु निवेशितं प्रवेशितमाननं मुखं येन तत्तथोक्तं समीपवर्तिनं भोगिनं सर्गं न घ्नन्ति । न मारयन्तीत्यर्थः ॥
पदच्छेदः AI
हुताग्निकल्पैःहुत (√हु+क्त)अग्निकल्प (३.३) like sacrificial fires
सवितुःसवितृ (६.१) of the sun
गभस्तिभिःगभस्ति (३.३) by the rays
कलापिनःकलापिन् (१.३) peacocks
क्लान्तशरीरचेतसःक्लान्त (√क्लम्+क्त)शरीरचेतस् (१.३) whose bodies and minds are exhausted
not
भोगिनम्भोगिन् (२.१) a serpent
घ्नन्तिघ्नन्ति (√हन् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) kill
समीपवर्तिनम्समीपवर्तिन् (√वृत्+णिनि, २.१) nearby
कलापचक्रेषुकलापचक्र (७.३) in the circle of their tail feathers
निवेशिताननम्निवेशित (नि√विश्+णिच्+क्त)आनन (२.१) who has hidden its head
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
हु ता ग्नि ल्पैः वि तु र्ग स्ति भिः
ला पि नः क्ला न्त री चे सः
भो गि नं घ्न न्ति मी र्ति नं
ला क्रे षु नि वे शि ता नम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.