Loading data... On slow networks this could take a few minutes.
100%

विशुष्ककण्ठोद्गतसीकराम्भसो
गभस्तिभिर्भानुमतोऽनुतापिताः ।
प्रवृद्धतृष्णोपहता जलार्थिनो
न दन्तिनः केसरिणोऽपि बिभ्यति ॥

अन्वयः AI भानुमतः गभस्तिभिः अनुतापिताः, विशुष्क-कण्ठ-उद्गत-सीकर-अम्भसः, प्रवृद्ध-तृष्णा-उपहताः, जल-अर्थिनः दन्तिनः केसरिणः अपि न बिभ्यति ।
Summary AI Elephants, scorched by the sun's rays, with only foamy spray coming from their parched throats, afflicted by intense thirst and seeking water, are not even afraid of lions.
सारांश AI धूप से झुलसे और प्यास से बेहाल हाथी जल की तलाश में इतने व्याकुल हैं कि वे अपने स्वाभाविक शत्रु सिंह से भी भयभीत नहीं हो रहे हैं।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः) विशुष्केति ॥ दन्तिनो गजाः केसरिणः सिंहादपि न बिभ्यति भयं न प्राप्नुवन्ति । किंभूता दन्तिनाः — विशुष्को योऽसौ कण्ठस्तस्मदाहृतानि आकृष्टानि अम्भसः शीकराणि शीकराम्भांसि शुण्डान्तःस्थलजललवा यैस्ते । वमधुः करशीकरः इति हैमः । पुनः किंभूताः — भानुमतः सूर्यस्यगभस्तिभिः किरणैरभितापिताः अभि समन्तात् तापिताः। पुनः — प्रवृद्धा वृद्धिं प्राप्ता या तृष्णा तयोपहता निरुद्योगाहतप्रायाः प्रवृद्धतृष्णोपहताः । पुनः किंभूतः — जलमर्थयन्ति याचयन्तीति जलार्थिनः । अनेन गजा अपि निस्तेजत्वात् सिंहान्नापसर्पन्तीति ग्रीष्मातिरेको वर्णितः ॥
चन्द्रिकाटीका (मणिरामः) विशुष्केति ॥ विशुष्केण कण्ठेनाहृतं गृहीतं सीकराम्भस्तुषारजलं यैस्ते तथोक्ता भानुमतः किरणमालिनः सूर्यस्य गभस्तिभी रश्मिभिरनुतापिताः सन्तापिताः । प्रवृद्धतृष्णयात्यधिकपिपासयोपहताः पीडिताः । अतएव जलार्थिना जलकाङ्क्षिणो दन्तिनो गजाः केसरिणोऽपि सिंहादपि न बिभ्यति भयं न प्राप्नुवन्तीत्यर्थः ॥
पदच्छेदः AI
विशुष्ककण्ठोद्गतसीकराम्भसःविशुष्क (वि√शुष्+क्त)कण्ठउद्गत (उद्√गम्+क्त)–सीकरअम्भस् (१.३) from whose parched throats only foamy spray emerges
गभस्तिभिःगभस्ति (३.३) by the rays
भानुमतःभानुमत् (६.१) of the sun
अनुतापिताःअनुतापित (अनु√तप्+णिच्+क्त, १.३) scorched
प्रवृद्धतृष्णोपहताःप्रवृद्ध (प्र√वृध्+क्त)तृष्णाउपहत (उप√हन्+क्त, १.३) afflicted by intense thirst
जलार्थिनःजलअर्थिन् (१.३) seeking water
not
दन्तिनःदन्तिन् (१.३) elephants
केसरिणःकेसरिन् (५.१) of lions
अपिअपि even
बिभ्यतिबिभ्यति (√भी कर्तरि लट् (परस्मै.) प्र.पु. बहु.) are afraid
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
वि शु ष्क ण्ठो द्ग सी रा म्भ सो
स्ति भि र्भा नु तो ऽनु ता पि ताः
प्र वृ द्ध तृ ष्णो ता ला र्थि नो
न्ति नः के रि णो ऽपि बि भ्य ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.