Loading data... On slow networks this could take a few minutes.
100%

तृषा महत्या हतविक्रमोद्यमः
श्वसन्मुहुर्दूरविदारिताननः ।
न हन्त्यदूरेऽपि गजान्मृगेश्वरो
विलोलजिह्वश्चलिताग्रकेसरः ॥

अन्वयः AI महत्य तृषा हत-विक्रम-उद्यमः, मुहुः श्वसन्, दूर-विदारित-आननः, विलोल-जिह्वः, चलित-अग्र-केसरः मृग-ईश्वरः अदूरॆ अपि गजान् न हन्ति ।
Summary AI The lion, its strength and effort destroyed by great thirst, panting repeatedly with its mouth wide open, its tongue lolling and the tips of its mane trembling, does not attack elephants even when they are nearby.
सारांश AI भीषण प्यास से पराक्रम खो चुका और जीभ लपलपाता हुआ सिंह पास खड़े हाथियों को भी नहीं मार रहा है, वह केवल मुंह खोलकर हांफ रहा है।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः) तृषेति ॥ मृगाधिपः सिंहोऽदूरे समीपे गजान् हस्तिनो न हन्ति । किं भूतो मृगाधिपः — महत्याऽधिकतरया तृषा कृत्वा हृतो गतो विक्रमस्य पराक्रमस्योद्यमो यस्य सः अथवा विक्रमलक्षण उद्यमो यस्य सः । पुनः किंभूतः — मुहुवरिं वारं श्वसन् । पुनः किंभूतः — दूरविदारिताननः दूरमतिशयेन विदारितं प्रसारितं आननं मुखं येन सः । पुनः किंभूतः — विलोला चपला जिह्वा रसना यस्य सः । पुनः किंभूतः — स्खलिताग्रकेसरः स्खलिताश्चलिता अग्रकेसराः केसराग्राणि यस्य सः । ग्रीष्माधिक्यात् सिंहस्यापि पराक्रमः क्षीणत्वमापन्नः किं पुनः कामिनामिति भावः ॥
चन्द्रिकाटीका (मणिरामः) तृषेति ॥ महत्या तृषा पिपासया हतो विक्रमस्य पराक्रमस्योद्यम उद्योगो यस्य स तथोक्तः । मुहुर्वारं वारं दूराद् विदारितं विस्तारितमाननं मुखं येन स तथोक्तः । विलोलजिह्वश्चलिताश्चञ्चला अग्रकेसरा अग्रसटा यस्य स तथोक्तो मृगेश्वरः सिंहः । सिंहो मृगेन्द्रः पञ्चास्यः इत्यमरः (अमरकोशः २.५.१ ) । अदूरेऽपि समीपे वर्तमानमिति शेषः । गजान् मातङ्गान् न हन्ति मारयतीत्यर्थः । न हि जायते स्वस्मिन् क्लेशिते परहनने प्रवृत्तिरिति भावः ॥
पदच्छेदः AI
तृषातृष् (३.१) by thirst
महत्यमहत् (३.१) great
हतविक्रमोद्यमःहत (√हन्+क्त)विक्रमउद्यम (१.१) whose strength and effort are destroyed
श्वसन्श्वसत् (√श्वस्+शत्रृ, १.१) panting
मुहुःमुहुः repeatedly
दूरविदारिताननःदूरविदारित (वि√दृ+णिच्+क्त)आनन (१.१) with mouth wide open
not
हन्तिहन्ति (√हन् कर्तरि लट् (परस्मै.) प्र.पु. एक.) attacks
अदूरेअदूर (७.१) nearby
अपिअपि even
गजान्गज (२.३) elephants
मृगेश्वरःमृगईश्वर (१.१) the king of beasts (lion)
विलोलजिह्वःविलोलजिह्वा (१.१) with lolling tongue
चलिताग्रकेसरःचलित (√चल्+क्त)अग्रकेसर (१.१) with trembling mane-tips
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
तृ षा त्या वि क्र मो द्य मः
श्व न्मु हु र्दू वि दा रि ता नः
न्त्य दू रे ऽपि जा न्मृ गे श्व रो
वि लो जि ह्व श्च लि ता ग्र के रः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.