Loading data... On slow networks this could take a few minutes.
100%

रवेर्मयूखैरभितापितो भृशं
विदह्यमानः पथि तप्तपांसुभिः ।
अवाङ्मुखो जिह्मगतिः श्वसन्मुहुः
फणी मयूरस्य तले निषीदति ॥

अन्वयः AI रवेः मयूखैः भृशम् अभितापितः, पथि तप्त-पांसुभिः विदह्यमानः, अवाङ्-मुखः, जिह्म-गतिः, मुहुः श्वसन् फणी मयूरस्य तले निषीदति ।
Summary AI A serpent, severely scorched by the sun's rays, burned by the hot dust on the path, with its head lowered and moving crookedly, breathing heavily again and again, sits under a peacock (its natural enemy).
सारांश AI सूर्य की किरणों और तपती धूल से झुलसा हुआ सांप हांफता हुआ और अपना मुख नीचे किए हुए मोर के पंखों के घेरे की छाया में जाकर बैठ गया है।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः) रवेर्मयूखैरिति ॥ फणी सर्पो मयूरस्य तले निषीदति तिष्ठति । कथंभूतः फणी — रवेः सूर्यस्य मयूखैः किरणैर्भृशमभितापितः सन्तापितः । पुनः किंभूतः फणी — पथि मार्गे तप्तांसुभिः तप्तरेणुभिर्विदह्यमानो विशेषेण दह्यमानः । पुनः किंभूतोऽवाक्फणः — अवाचोऽधोमुखाः फणा यस्य सोऽवाक्फणः । पुनः किंभूतो — जिह्मगतिः जिह्मा वक्रा मन्दा च गतिर्यस्य स जिह्मगतिः । जिह्मो वक्रश्च मन्दश्च । फणी मयूरेण सह स्वभावस्य वैरमपि न स्मरतीत्यर्थः ॥
चन्द्रिकाटीका (मणिरामः) रवेरिति ॥ रवेः सूर्यस्य मयूखैः किरणैः । किरणोऽस्रमयूखांशु गभस्तिघृणिरश्मयः इत्यमरः (अमरकोशः १.३.३७ ) । अभितापितः सन्तापितः। भृशमत्यन्तं पथि मार्गे तप्तपांसुभिरुष्णरजोभिर्विदह्यमानः अवाङ्मुखोऽधोमुखो जिह्मगतिः कुटिलगमनो मुहूर्वारं वारं श्वसञ्छ्वासोच्छ्वासं कुर्वन् फणी सर्पो मयूरस्य वर्हिणः । मयूरो वर्हिणो वर्ही इत्यमरः (अमरकोशः २.५.३२ ) । तलेऽधोभागे निषीदत्यवतिष्ठत इत्यर्थः ॥
पदच्छेदः AI
रवेःरवि (६.१) of the sun
मयूखैःमयूख (३.३) by the rays
अभितापितःअभितापित (अभि√तप्+णिच्+क्त, १.१) scorched
भृशम्भृशम् severely
विदह्यमानःविदह्यमान (वि√दह्+शानच्, १.१) being burned
पथिपथिन् (७.१) on the path
तप्तपांसुभिःतप्त (√तप्+क्त)पांसु (३.३) by the hot dust
अवाङ्मुखःअवाच्मुख (१.१) with head lowered
जिह्मगतिःजिह्मगति (१.१) with crooked movement
श्वसन्श्वसत् (√श्वस्+शत्रृ, १.१) breathing
मुहुःमुहुः repeatedly
फणीफणिन् (१.१) a serpent
मयूरस्यमयूर (६.१) of a peacock
तलेतल (७.१) under
निषीदतिनिषीदति (नि√सद् कर्तरि लट् (परस्मै.) प्र.पु. एक.) sits
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
वे र्म यू खै भि ता पि तो भृ शं
वि ह्य मा नः थि प्त पां सु भिः
वा ङ्मु खो जि ह्म तिः श्व न्मु हुः
णी यू स्य ले नि षी ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.