Loading data... On slow networks this could take a few minutes.
100%

सविभ्रमैः सस्मितजिह्मवीक्षितै-
र्विलासवत्यो मनसि प्रवासिनाम् ।
अनङ्गसंदीपनमाशु कुर्वते
यथा प्रदोषाः शशिचारुभूषणाः ॥

अन्वयः AI यथा शशि-चारु-भूषणाः प्रदोषाः प्रवासिनां मनसि अनङ्गसंदीपनं कुर्वते, तथा विलासवत्यः स-विभ्रमैः स-स्मित-जिह्म-वीक्षितैः प्रवासिनाम् मनसि आशु अनङ्ग-संदीपनम् कुर्वते ।
Summary AI Playful women, with their coquettish and smiling side-glances, quickly kindle desire in the minds of travelers, just as the evenings, beautifully adorned by the moon, do.
सारांश AI स्त्रियों की मुस्कान और कटाक्ष भरे विलासपूर्ण संकेत यात्रियों के मन में कामेच्छा को उसी प्रकार बढ़ाते हैं, जैसे चंद्रमा से सुशोभित संध्या।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः) सविभ्रमैरिति ॥ विलासवत्यो विलासो विद्यते यासां ता विलासवत्यो नार्य आशु शीघ्रं सविभ्रमैर्भ्रूविलाससहितैः सस्मितजिह्मं सहास्यकुटिलं यथा स्थात्तथा ईक्षितैर्दर्शनैः कृत्वा प्रसङ्गिनां स्त्रीणां प्रकर्षेण सङ्गः संयोगोऽस्त्येषामिति प्रसङ्गिनस्तेषाम् अर्थात् कामिनां मनसि चेतस्यनङ्गसन्दीपनं कामोद्दीप्तिं कुर्वते । क इव — यथा प्रदोषाः प्रसङ्गिनां मनसि अनङ्गसन्दीपनं कुर्वते । किंभूताः प्रदोषाः —शशी चन्द्र इव चारु मनोहरं भूषणं येषां ते तथा ॥
चन्द्रिकाटीका (मणिरामः) सविभ्रमैरिति ॥ यथा शशिचारुभूषणः शश्येव चन्द्र एव चारु सुन्दर भूषणमेषां ते तथोक्ताः प्रदोषाः सन्ध्यासमयाः प्रवासिनां मन्स्यन्तःकरणेऽनङ्गसन्दीपनं कामसन्दीपनं कुर्वते । तथेत्यध्याहार्यम् । शशिचारुभूषणाः शशी चन्द्रस्तद्वच्चारुणि सुन्दराणि भूषणानि यासां तास्तथोक्ताः । विलासवत्यो विलासिन्यः सविभ्रमैर्विभ्रमसहितैः । सस्मितानि सहास्यानि जिह्यानि कुटिलानि वीक्षितानि निरीक्षणानि तैः कृत्वा प्रवासिनां मनस्याशु झटित्यनङ्गसन्दीपनं कामस्योद्दीपनं कुर्वत इत्यर्थः ॥
पदच्छेदः AI
सविभ्रमैःविभ्रम (३.३) with coquettish
सस्मितजिह्मवीक्षितैःसस्मितजिह्मवीक्षित (वि√ईक्ष्+क्त, ३.३) smiling side-glances
विलासवत्यःविलासवती (१.३) playful women
मनसिमनस् (७.१) in the mind
प्रवासिनाम्प्रवासिन् (६.३) of travelers
अनङ्गसंदीपनम्अनङ्गसंदीपन (सम्√दीप्+णिच्+ल्युट्, २.१) the kindling of desire
आशुआशु quickly
कुर्वतेकुर्वते (√कृ कर्तरि लट् (आत्मने.) प्र.पु. बहु.) do
यथायथा just as
प्रदोषाःप्रदोष (१.३) the evenings
शशिचारुभूषणाःशशिन्चारुभूषण (१.३) beautifully adorned by the moon
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
वि भ्र मैः स्मि जि ह्म वी क्षि तै
र्वि ला त्यो सि प्र वा सि नाम्
ङ्ग सं दी मा शु कु र्व ते
था प्र दो षाः शि चा रु भू णाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.