Loading data... On slow networks this could take a few minutes.
100%

दृष्टदोषमपि तन्न सोऽत्यज-
त्सङ्गवस्तु भिषजामनाश्रवः ।
स्वादुभिस्तु विषयैर्हृतस्ततो
दृःखमिन्द्रियगणो निवार्यते ॥

अन्वयः AI सः अनाश्रवः (सन्) भिषजाम् (वचनम्) दृष्टदोषम् अपि तत् सङ्गवस्तु न अत्यजत् । तु ततः स्वादुभिः विषयैः हृतः इन्द्रियगणः दुःखम् निवार्यते ।
सञ्जीविनीटीका (मल्लिनाथः) दृष्टेति॥ भिषजां वैद्यानामनाश्रवो वचसि न स्थितः। वचने स्वित आश्रवः इत्यमरः। अविधेय इत्यर्थः। स दृष्टदोषमपि। रोगजननादिति शेषः। ततत्सङ्गस्य वस्तु सङ्गवस्तु स्त्रीमद्यादिकं सङ्गजनकं वस्तु नात्यजत्। तथा हि-इन्द्रियगणः स्वादुभिर्विषयैर्हृतस्तु हृतश्चेत्ततस्तेभ्यो विषयेभ्यो दुःखं कृच्छ्रेण निवार्यते। यदि वार्येतेति शेषः। दुस्त्यजाः खलु विषया इत्यर्थः ॥
Summary AI That king (Agnivarna), not heeding the words of the physicians, did not abandon the object of his attachment (women), even though its faults were pointed out. Consequently, his group of senses, captivated by pleasurable objects, was restrained with difficulty.
सारांश AI दोषों को जानते हुए भी राजा ने वैद्यों की सलाह नहीं मानी और विलास नहीं त्यागा; क्योंकि विषयों के स्वाद में फँसी इन्द्रियों को रोकना अत्यंत दुष्कर है।
पदच्छेदः AI
दृष्टदोषम्दृष्टदोष (२.१) whose faults were seen
अपिअपि even
तत्तद् (२.१) that
not
सःतद् (१.१) he
अत्यजत्अत्यजत् (√त्यज् कर्तरि लङ् (परस्मै.) प्र.पु. एक.) did abandon
सङ्गवस्तुसङ्गवस्तु (२.१) object of attachment
भिषजाम्भिषज् (६.३) of the physicians
अनाश्रवःनञ्आश्रव (१.१) one who does not listen
स्वादुभिःस्वादु (३.३) by pleasant
तुतु but
विषयैःविषय (३.३) by objects (of senses)
हृतःहृत (√हृ+क्त, १.१) captivated
ततःततः from that
दुःखम्दुःखम् with difficulty
इन्द्रियगणःइन्द्रियगण (१.१) the group of senses
निवार्यतेनिवार्यते (नि√वृ +णिच् भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) is restrained
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
दृ ष्ट दो पि न्न सो ऽत्य
त्स ङ्ग स्तु भि जा ना श्र वः
स्वा दु भि स्तु वि यै र्हृ स्त तो
दृः मि न्द्रि णो नि वा र्य ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.