संगमाय निशि गूढचारिणं
चारदूतिकथितं पुरोगताः ।
वञ्चयिष्यसि कुतस्तमोवृतः
कामुकेति चकृषुस्तमङ्गनाः ॥

अन्वयः AI अङ्गनाः निशि संगमाय गूढ-चारिणम् चार-दूति-कथितम् तम् पुरः-गताः (भूत्वा), "कामुक! तमः-वृतः (त्वम्) कुतः वञ्चयिष्यसि?" इति (उक्त्वा) तम् चकृषुः।
सञ्जीविनीटीका (मल्लिनाथः) संगमायेति॥ संगमास्य सुरतार्थं निशइ गूढमज्ञातं चरतीष्टगृहं प्रति गच्छतीति गूढचारी। तं चारदूतिकथितम्। चरन्तीति चारा गूढचारिण्यः। ज्वलितिकसन्तेभ्यो णः (अष्टाध्यायी ३.१.१४० ) इति णप्रत्ययः। चाराश्च ता दूत्यश्च चारदूतयः। ताभिः कथितं निवेदितं तमग्निवर्णम्। अङ्गनाः पुरोऽग्रे गताः। अवरुद्धमार्गाः सत्य इत्यर्थः। हे कामुक!तमसा वृतो गूढः सन् कुतो वञ्चयिष्यसीति। उपालभ्येति शेषः। चकृषुः। स्ववासं निन्युरित्यर्थः ॥
Summary AI When he was secretly going for a tryst at night, having been reported by their spy-messengers, the women went ahead and intercepted him. Saying, "O lover, how will you deceive us, even though you are cloaked in darkness?", they dragged him away.
सारांश AI रात में छिपकर मिलने जाते हुए राजा को दूतियों की सूचना पर रानियों ने बीच रास्ते में ही पकड़ लिया और अंधेरे में जाने का उपहास किया।
पदच्छेदः AI
संगमायसंगम (४.१) for a tryst
निशिनिश् (७.१) at night
गूढचारिणम्गूढचारिन् (२.१) him who was moving secretly
चारदूतिकथितम्चारदूतीकथित (√कथित+क्त, २.१) who was reported by a spy-messenger
पुरोगताःपुरस्गत (√गत+क्त, १.३) having gone before him
वञ्चयिष्यसिवञ्चयिष्यसि (√वञ्च् +णिच् कर्तरि लृट् (परस्मै.) म.पु. एक.) you will deceive
कुतःकुतः how
तमोवृतःतमस्वृत (√वृत+क्त, १.१) covered by darkness
कामुककामुक (८.१) O lover
इतिइति thus
चकृषुःचकृषुः (√कृष् कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) they dragged
तम्तद् (२.१) him
अङ्गनाःअङ्गना (१.३) the women
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
सं मा नि शि गू चा रि णं
चा दू ति थि तं पु रो ताः
ञ्च यि ष्य सि कु स्त मो वृ तः
का मु के ति कृ षु स्त ङ्ग नाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.