Loading data... On slow networks this could take a few minutes.
100%

चूर्णबभ्रु लुलितस्नगाकुलं
छिन्नमेखलमलक्तकाङ्कितम् ।
उत्थितस्य शयनं विलासिन-
स्तस्य विभ्रमरतान्यपावृणोत् ॥

अन्वयः AI उत्थितस्य विलासिनः तस्य शयनम् चूर्ण-बभ्रु, लुलित-स्रक्-आकुलम्, छिन्न-मेखलम्, अलक्तक-अङ्कितम् सत् विभ्रम-रतानि अपावृणोत्।
सञ्जीविनीटीका (मल्लिनाथः) चूर्णेति॥ चूर्णैर्बभ्रु चूर्णैर्व्यानतकरणैरधोमुखव्स्थितायाः स्त्रियाशअचिकुरगलितैः कुङ्कुमादिभिर्बभ्रु पिङ्गलम्। बभ्रु स्यात्पिङ्गले त्रिषु इत्यमरः। लुलितस्नगाकुलं वरिपदाख्यबन्धे स्त्रिया भूमिगतमस्तकतया पतिताभिर्लुलितस्रग्भिराकुलम्। छिन्नमेखलं हरिविक्रमकरणैः स्त्रिया उच्छ्रितैकचरणत्वाच्छिन्नमेखलम्, गलितमेखलमित्यर्थः। अलक्तकाङ्कितं धेनुकबन्धे भूतलनिहितकान्ताचरणत्वाल्लक्षारागखषितं शयनं कर्तृ। उत्थितस्य । शयनादिति भावः। विलासिनस्तस्याग्निवर्णस्य विभ्रमरतानि लीलारतानि। सुरतबन्धविशेषानित्यर्थः। अपावृणोत् स्फुटीचकार। व्यानतादीनां लक्षणं रतिरहस्ये-व्यानतं रतमिदं प्रिया यदि स्यादधोमुखचतुष्पदाकृतिः। तत्कटिं समधिरुह्य वल्लभः स्याद्वृषादिपशुसंस्थितस्थितिः। भूगतस्तनभुजास्यमस्तकामुन्नतस्फिञ्चमधोमुखीं स्त्रियम्। क्रामति स्वकरकृष्टमेहने वल्लभे वरिपदं तदुच्यते। योषिदेकचरणे समुत्विते जायते हि हरिविक्रमाह्वयः। न्यस्तद्दस्तयुगला निजे पदे योषिदेति कटिरूढवल्लभा। अग्रतो यदि शनैरधोमुखी धैनुकं वृषवदुन्नते प्रिये ॥ इति ॥
Summary AI The bed of that pleasure-seeking king, after he had risen, revealed the agitated nature of his lovemaking. It was tawny with cosmetic powders, disordered with crushed garlands, strewn with broken girdles, and marked with red lac-dye from his beloved's feet.
सारांश AI केसर के चूर्ण, कुचली हुई मालाओं, टूटी करधनी और महावर के निशानों से युक्त राजा की शैया उसके विलासी रात्रिकाल के रहस्यों को खोल रही थी।
पदच्छेदः AI
चूर्णबभ्रुचूर्णबभ्रु (१.१) tawny with cosmetic powder
लुलितस्रगाकुलम्लुलितस्रज्आकुल (१.१) disordered with crushed garlands
छिन्नमेखलम्छिन्नमेखल (१.१) with broken girdles
अलक्तकाङ्कितम्अलक्तकअङ्कित (१.१) marked with red lac-dye
उत्थितस्यउत्थित (उद्√स्था+क्त, ६.१) of the one who has risen
शयनम्शयन (१.१) the bed
विलासिनःविलासिन् (६.१) of the pleasure-seeker
तस्यतद् (६.१) his
विभ्रमरतानिविभ्रमरत (२.३) the agitated love-makings
अपावृणोत्अपावृणोत् (अप+आ√वृ कर्तरि लङ् (परस्मै.) प्र.पु. एक.) it revealed
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
चू र्ण भ्रु लु लि स्न गा कु लं
छि न्न मे क्त का ङ्कि तम्
त्थि स्य नं वि ला सि
स्त स्य वि भ्र ता न्य पा वृ णोत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.