Loading data... On slow networks this could take a few minutes.
100%

नाम वल्लभजनस्य ते मया
प्राप्य भाग्यमपि तस्य काङ्क्ष्यते ।
लोलुपं ननु मनो ममेति तं
गोत्रविस्खलितमूचुरङ्गनाः ॥

अन्वयः AI "ते वल्लभ-जनस्य नाम प्राप्य, मया तस्य भाग्यम् अपि काङ्क्ष्यते। ननु मम मनः लोलुपम्।" इति अङ्गनाः तम् गोत्र-विस्खलितम् ऊचुः।
सञ्जीविनीटीका (मल्लिनाथः) नामेति॥ मया ते वल्लभजनस्य प्रियजनस्य नाम प्राप्य तन्नाम्नाह्वानं लब्ध्वा तस्य त्वद्वल्लभजनस्य यद्भाग्यम्। तत्परिहासकारणमिति शेषः। तदपि काङ्क्ष्यते। ननु बत मम मनो लोलुपं गृध्रु। इत्यनेन प्रकारेण गोत्रे नाम्नि विस्खलितं स्खलितवन्तं तमग्निवर्णमूचुः। गोत्रं नाम्नि कुलेऽचले इति यादवः। तन्नामलाभे सति तद्भाग्यमपि काङ्क्ष्यते मनः। अहो तृष्णेति सोल्लुण्ठमुपालम्भन्तेत्यर्थः ॥
Summary AI When he accidentally called them by another's name, the women would say to him, "Having obtained the name of your beloved, my mind now desires her good fortune as well. Indeed, my mind is greedy." This was their way of pointing out his slip of the tongue.
सारांश AI भूल से दूसरी रानी का नाम लेने पर स्त्रियों ने तंज कसते हुए कहा कि उन्हें केवल आपका नाम मिला है, जबकि सौभाग्य उस दूसरी का ही है जिसका नाम आपकी जुबान पर है।
पदच्छेदः AI
नामनामन् (२.१) the name
वल्लभजनस्यवल्लभजन (६.१) of the beloved person
तेयुष्मद् (६.१) your
मयाअस्मद् (३.१) by me
प्राप्यप्राप्य (प्र√आप्+ल्यप्) having obtained
भाग्यम्भाग्य (२.१) the fortune
अपिअपि also
तस्यतद् (६.१) of that person
काङ्क्ष्यतेकाङ्क्ष्यते (√काङ्क्ष् भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) is desired
लोलुपम्लोलुप (१.१) greedy
ननुननु Indeed
मनःमनस् (१.१) mind
ममअस्मद् (६.१) my
इतिइति thus
तम्तद् (२.१) to him
गोत्रविस्खलितम्गोत्रविस्खलित as a slip of the tongue regarding the name
ऊचुःऊचुः (√वच् कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) they said
अङ्गनाःअङ्गना (१.३) the women
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
ना ल्ल स्य ते या
प्रा प्य भा ग्य पि स्य का ङ्क्ष्य ते
लो लु पं नु नो मे ति तं
गो त्र वि स्ख लि मू चु ङ्ग नाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.