तस्य सावरणदृष्टसंधयः
काम्यवस्तुषु नवेषु सङ्गिनः ।
वल्लभाभिरुपसृत्य चक्रिरे
सामिभुक्तविषयाः समागमाः ॥

अन्वयः AI वल्लभाभिः उपसृत्य तस्य काम्य-वस्तुषु नवेषु सङ्गिनः स-आवरण-दृष्ट-संधयः सामी-भुक्त-विषयाः समागमाः चक्रिरे।
सञ्जीविनीटीका (मल्लिनाथः) तस्येति॥ उपसृत्यान्यत्र गत्वा न वेषु नूतनेषु काम्यवस्तुषु शब्दादिष्विन्द्रियार्थेषु सङअगिन आसक्तिमतः सतस्तस्य सावरणाः प्रच्छन्ना दृष्टाः प्रकाशाश्च संधयः साधनानि येषु ते समागमाः संगमा वल्लभाभिः प्रेयसीभिः सामिभुक्तविषया अर्धोपभुक्तेन्द्रियार्थाश्चक्रिरे। यथेष्टं भुक्तश्चेत्तर्ह्ययं निःस्पृहः सन्नस्मत्समीपं नायास्यतीति भावः। अत्र गोनर्दीयः-संधिद्विविधः-सावरणः, प्रकाशश्च। छावरणो भिक्षुक्यादिना प्रकाशः स्वयमुपेत्य केनापि इति। इतः स्वयमुपसृत्य विशेषार्थीं तत्र स्थितोऽनुपजापं स्वयं संधेयः इति वात्स्यायनः। अन्यत्र गतं कथंचित्संधाय पुनरुपगमायार्धोपभोगेनानिवृत्ततृष्णं चक्रुरित्यर्थः ॥
Summary AI For him, who was addicted to new and desirable pleasures, meetings were arranged by his beloveds. These unions were partially enjoyed, with their junctures witnessed through a screen, thus leaving him wanting more.
सारांश AI नए-नए भोगों में आसक्त राजा के मिलन के क्षण उसकी प्रेयसियों द्वारा इतने आकर्षक बनाए जाते थे कि वह विषयों के उपभोग में पूरी तरह निमग्न रहता था।
पदच्छेदः AI
तस्यतद् (६.१) his
सावरणदृष्टसंधयःआवरणदृष्टसंधि (१.३) whose junctures were seen through a screen
काम्यवस्तुषुकाम्यवस्तु (७.३) in desirable things
नवेषुनव (७.३) new
सङ्गिनःसङ्गिन् (६.१) of him who was attached
वल्लभाभिःवल्लभा (३.३) by his beloveds
उपसृत्यउपसृत्य (उप√सृ+ल्यप्) having approached
चक्रिरेचक्रिरे (√कृ भावकर्मणोः लिट् (आत्मने.) प्र.पु. बहु.) were made
सामिभुक्तविषयाःसामीभुक्तविषय (१.३) in which the objects of pleasure were half-enjoyed
समागमाःसमागम (१.३) meetings
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
स्य सा दृ ष्ट सं यः
का म्य स्तु षु वे षु ङ्गि नः
ल्ल भा भि रु सृ त्य क्रि रे
सा मि भु क्त वि याः मा माः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.