Loading data... On slow networks this could take a few minutes.
100%

अनश्नुवानेन युगोपमान-
मबद्धमौर्वीकिणलाञ्छनेन ।
अस्पृष्टखङ्गत्सरुणापि चासी-
द्रक्षावती तस्य भुजेन भूमिः ॥

अन्वयः AI युग-उपमानम् अनश्नुवानेन, अबद्ध-मौर्वी-किण-लाञ्छनेन, अस्पृष्ट-खङ्ग-त्सरुणा अपि तस्य भुजेन भूमिः रक्षावती आसीत्।
सञ्जीविनीटीका (मल्लिनाथः) अनश्नुवानेनेति॥ युगोपमानं युगसादृश्यमनश्नुवानेनाप्राप्नुवता। अबद्धं मौर्वीकिणो ज्याघातग्रन्थिरेव लाञ्छनं यस्य तेन। अस्पृष्टः खङ्गत्सरुः खङ्गमुष्टिर्येन तेन। त्सरुः खङ्गादिमुष्टौ स्यात् इत्यमरः। एवंविधेनापि च तस्य सुदर्शनस्य भुजेन भूमि रक्षावत्यासीत्। शिशोरपि तस्य तेजस्तादृगित्यर्थः ॥
Summary AI Even though his arm did not yet match the yoke-like standard of a warrior, was unmarked by the calluses from a bowstring, and had not yet touched a sword-hilt, the earth was well-protected by it.
सारांश AI जो अभी जुए के समान लंबे नहीं हुए थे और जिन पर धनुष की डोरी या तलवार की मूठ के चिह्न नहीं थे, उन कोमल भुजाओं से भी पृथ्वी पूरी तरह सुरक्षित थी।
पदच्छेदः AI
अनश्नुवानेनअनश्नुवान (√अश्+शानच्, ३.१) by the one not attaining
युगोपमानम्युगउपमान (२.१) the comparison with a yoke
अबद्धमौर्वीकिणलाञ्छनेनअबद्धमौर्वीकिणलाञ्छन (३.१) unmarked by the calluses from a bowstring
अस्पृष्टखङ्गत्सरुणाअस्पृष्टखङ्गत्सरु (३.१) which had not touched a sword-hilt
अपिअपि even
and
आसीत्आसीत् (√अस् कर्तरि लङ् (परस्मै.) प्र.पु. एक.) was
रक्षावतीरक्षावत् (१.१) well-protected
तस्यतद् (६.१) his
भुजेनभुज (३.१) by the arm
भूमिःभूमि (१.१) the earth
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
श्नु वा ने यु गो मा
द्ध मौ र्वी कि ला ञ्छ ने
स्पृ ष्ट ङ्ग त्स रु णा पि चा सी
द्र क्षा ती स्य भु जे भू मिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.