Loading data... On slow networks this could take a few minutes.
100%

ततः परं तत्प्रभवः प्रपेदे
ध्रुवोपमेयो ध्रुवसंधिरुर्वीम् ।
यस्मिन्नभूज्ज्यायसि सत्यसंधे
संधिर्ध्रुवः संनमतामरीणाम् ॥

अन्वयः AI ततः परम्, ध्रुव-उपमेयः तत्-प्रभवः ध्रुव-संधिः उर्वीम् प्रपेदे । ज्यायसि सत्य-संधे यस्मिन् (शासति सति), संनमताम् अरीणाम् ध्रुवः संधिः अभूत् ।
सञ्जीविनीटीका (मल्लिनाथः) तत इति॥ ततः परं स पुष्यः प्रभवः कारणं यस्य स तत्प्रभवः। तदात्मज इत्यर्थः। ध्रुवेणौत्तानपादिनोपमेयः। ध्रुव औत्तानपादिः स्यात् इत्यमरः (अमरकोशः १.३.२२ ) । ध्रुवसंधिरुर्वीं प्रपेदे। ज्यायसि श्रेष्ठे सत्यसंधे सत्यप्रतिज्ञे यस्मिन् ध्रुवसंधौ संनमताम्, अनुद्धतानामित्यर्थः। अरीणां संधिर्ध्रुवः स्थिरोऽभूत्। ततः सार्थकनामेत्यर्थः ॥
Summary AI After Pushya, his son Dhruvasandhi, who was comparable to the pole star, obtained the earth. When he, the most excellent and true to his word, was ruling, a firm and lasting treaty was established with the enemies who submitted to him.
सारांश AI उनके बाद ध्रुव के समान स्थिर बुद्धि वाले ध्रुवसंधि राजा हुए, जिनके शरणागत होने वाले शत्रुओं के साथ उनकी मैत्री सदैव अटल रहती थी।
पदच्छेदः AI
ततःततः After that
परंपरम् then
तत्प्रभवःतत्प्रभव (१.१) his son
प्रपेदेप्रपेदे (प्र√पद् कर्तरि लिट् (आत्मने.) प्र.पु. एक.) obtained
ध्रुवोपमेयःध्रुवउपमेय (१.१) comparable to the pole star
ध्रुवसंधिःध्रुवसंधि (१.१) Dhruvasandhi
उर्वीम्उर्वी (२.१) the earth
यस्मिन्यद् (७.१) while whom
अभूत्अभूत् (√भू कर्तरि लङ् (परस्मै.) प्र.पु. एक.) there was
ज्यायसिज्यायस् (७.१) the most excellent
सत्यसंधेसत्यसंध (७.१) true to his promise
संधिःसंधि (१.१) a treaty
ध्रुवःध्रुव (१.१) firm
संनमताम्संनमत (सम्√नम्+शतृ, ६.३) of the bowing
अरीणाम्अरि (६.३) enemies
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
तः रं त्प्र वः प्र पे दे
ध्रु वो मे यो ध्रु सं धि रु र्वीम्
स्मि न्न भू ज्ज्या सि त्य सं धे
सं धि र्ध्रु वः सं ता री णाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.