Loading data... On slow networks this could take a few minutes.
100%

कौसल्य इत्युत्तरकोसलानां
पत्युः पतङ्गान्वयभूषणस्य ।
तस्यौरसः सोमसुतः सुतोऽभू-
न्नेत्रोत्सवः सोम इव द्वितीयः ॥

अन्वयः AI उत्तर-कोसलानाम् पत्युः, पतङ्ग-अन्वय-भूषणस्य तस्य (हिरण्यनाभस्य) सोम-सुतः, द्वितीयः सोमः इव नेत्र-उत्सवः, कौसल्यः इति औरसः सुतः अभूत् ।
सञ्जीविनीटीका (मल्लिनाथः) कौसल्य इति॥ उत्तरकोसलानां पत्युः पतङ्गन्वयभूषणस्य सूर्यशाभरणस्य सोमसुतः सोमं सुतवतः। यज्वन इत्यर्थःथ। सोमे सुञः (अष्टाध्यायी ३.२.९० ) इति क्विप्। तस्य हिरण्यनाभस्य द्वितीयः सोमश्चन्द्र इव। नेत्रोत्सवो नयनानन्दकरः कौसल्य इति प्रसिद्ध औरसो धर्मपत्नीजः सुतोऽभूत् ॥
Summary AI To that king Hiranyanabha, lord of the North Kosalas and an ornament of the Solar dynasty, a legitimate son named Kausalya was born from a Soma sacrifice. He was a delight to the eyes, like a second moon.
सारांश AI उत्तर कोसल के स्वामी उस राजा के यहाँ कौसल्य नामक पुत्र हुआ, जो सूर्यवंश का आभूषण और चंद्रमा के समान आँखों को शीतलता देने वाला था।
पदच्छेदः AI
कौसल्यःकौसल्य (१.१) Kausalya
इतिइति thus named
उत्तरकोसलानांउत्तरकोसल (६.३) of the North Kosalas
पत्युःपति (६.१) of the lord
पतङ्गान्वयभूषणस्यपतङ्गअन्वयभूषण (६.१) who was an ornament of the Solar dynasty
तस्यतद् (६.१) His
औरसःऔरस (१.१) legitimate
सोमसुतःसोमसुत (१.१) born of a Soma sacrifice
सुतःसुत (१.१) son
अभूत्अभूत् (√भू कर्तरि लङ् (परस्मै.) प्र.पु. एक.) was born
नेत्रोत्सवःनेत्रउत्सव (१.१) a festival for the eyes
सोमःसोम (१.१) the moon
इवइव like
द्वितीयःद्वितीय (१.१) a second
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११
कौ ल्य त्यु त्त को ला नां
त्युः ङ्गा न्व भू स्य
स्यौ सः सो सु तः सु तो ऽभू
न्ने त्रो त्स वः सो द्वि ती यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.