Loading data... On slow networks this could take a few minutes.
100%

उन्नाभ इत्युद्गतनामधेय-
स्तस्यायथार्थोन्नतनाभिरन्ध्रः ।
सुतोऽभवत्पङ्कजनाभकल्पः
कृत्स्नस्य नाभिर्नृपमण्डलस्य ॥

अन्वयः AI तस्य उन्नाभः इति उद्गतनामधेयः, अयथार्थोन्नतनाभिरन्ध्रः, पङ्कजनाभकल्पः, कृत्स्नस्य नृपमण्डलस्य नाभिः सुतः अभवत् ।
सञ्जीविनीटीका (मल्लिनाथः) उन्नाभ इति॥ तस्य शिलाख्यस्य । उन्नाभ इत्युद्गतनामधेयः प्रसिद्धनामाऽयथार्थं यथा तथोन्नतं नाभिरन्ध्रं यस्य सः। गम्भीरनाभिरित्यर्थः। तदुक्तम्-स्वरः सत्त्वं च नाभिश्च गम्भीर्यं त्रिषु शस्यते। पङ्कजनाभकल्पो विष्णुसदृशः कृत्स्नास्य नृपमण्डलस्य नाभिः प्रधानम्। नाभिः प्रधाने कस्तूरीमदेऽपि क्वचिदीरितः इति विश्वः। सुतोऽभवत्। अच्प्रत्यन्ववपूर्वात्सामलोम्नः (अष्टाध्यायी ५.४.७५ ) इत्यत्राजिति योगविभागादुवन्नाभ-वज्रनाभादयः सिद्धाः ॥
Summary AI His (Shila's) son was famously named Unnabha. Though his navel was not literally raised (as 'unna' suggests), he was like the lotus-naveled Vishnu and became the center (nābhi) of the entire circle of kings.
सारांश AI शिल के पुत्र का नाम उन्नाभ था, जो भगवान विष्णु के समान प्रभावशाली और संपूर्ण राजाओं के केंद्र बने, यद्यपि उनका नाम उनके शरीर की बनावट के अनुसार नहीं था।
पदच्छेदः AI
उन्नाभःउन्नाभ (१.१) Unnabha
इतिइति thus
उद्गतनामधेयःउद्गतनामधेय (१.१) of famous name
तस्यतद् (६.१) his (Shila's)
अयथार्थोन्नतनाभिरन्ध्रःअयथार्थउन्नतनाभिरन्ध्र (१.१) whose navel was not literally raised
सुतःसुत (१.१) son
अभवत्अभवत् (√भू कर्तरि लङ् (परस्मै.) प्र.पु. एक.) was
पङ्कजनाभकल्पःपङ्कजनाभकल्प (१.१) like the lotus-naveled Vishnu
कृत्स्नस्यकृत्स्न (६.१) of the entire
नाभिःनाभि (१.१) the center
नृपमण्डलस्यनृपमण्डल (६.१) of the circle of kings
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
न्ना त्यु द्ग ना धे
स्त स्या था र्थो न्न ना भि न्ध्रः
सु तो ऽभ त्प ङ्क ना ल्पः
कृ त्स्न स्य ना भि र्नृ ण्ड स्य
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.