Loading data... On slow networks this could take a few minutes.
100%

तमात्मसंपन्नमनिन्दितात्मा
कृत्वा युवानं युवराजमेव ।
सुखानि सोऽभुङ्क्त सुखोपरोधि
वृतं हि राज्ञामुपरुद्धवृत्तम् ॥

अन्वयः AI अनिन्दितात्मा सः आत्मसंपन्नं युवानं तम् युवराजम् एव कृत्वा सुखानि अभुङ्क्त । हि राज्ञां वृतं सुखोपरोधि उपरुद्धवृत्तं (भवति) ।
सञ्जीविनीटीका (मल्लिनाथः) तमिति॥ अनिन्दितात्माऽगर्हितस्वभावः स पारियात्रः। आत्मसंपन्नं बुद्धिसंपन्नम्। आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च इत्युभयत्राप्यमरः। युवानं तं शिलं युवराजं कृत्वैव सुखान्यभुङ्क्त। न त्वकृत्वेत्येवकारार्थः। किमर्थं युवराजशब्दकरणमित्याशङ्क्यान्यथा सुखोपभोगो दुर्लभ इत्याह-सुखोपरोधीति। हि यस्माद्राज्ञां वृत्तं प्रजापालनादिरूपं सुखोपरोधि बहुलत्वात्सुखप्रतिबन्धकम्। अत एव, उपरुद्धवृत्तम्। उपरुद्धसदृशमित्यर्थः। उपरुद्धः कारादिबद्धः। उपरुद्धस्य स्वयमूढभारस्य च सुखं नास्तीति भावः ॥
Summary AI The blameless King Shila, having made his virtuous young son the crown prince, enjoyed worldly pleasures. For indeed, the life of a ruling king, with its restrained conduct, is an obstacle to personal happiness.
सारांश AI अपने गुणवान और युवा पुत्र को युवराज के पद पर प्रतिष्ठित करके राजा ने सुखों का उपभोग किया, क्योंकि राजाओं का आचरण प्रायः राजकार्य की बाधाओं से घिरा रहता है।
पदच्छेदः AI
तम्तद् (२.१) him (Shila's son)
आत्मसंपन्नम्आत्मसंपन्न (२.१) endowed with virtues
अनिन्दितात्माअनिन्दितआत्मन् (१.१) he of blameless self (Shila)
कृत्वाकृत्वा (√कृ+क्त्वा) having made
युवानम्युवन् (२.१) the youth
युवराजम्युवराज (२.१) the crown prince
एवएव itself
सुखानिसुख (२.३) pleasures
सःतद् (१.१) he (Shila)
अभुङ्क्तअभुङ्क्त (√भुज् कर्तरि लङ् (आत्मने.) प्र.पु. एक.) enjoyed
सुखोपरोधिसुखउपरोधिन् (१.१) obstructive to happiness
वृतम्वृत (१.१) conduct
हिहि for
राज्ञाम्राजन् (६.३) of kings
उपरुद्धवृत्तम्उपरुद्धवृत्त (१.१) of restrained conduct
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
मा त्म सं न्न नि न्दि ता त्मा
कृ त्वा यु वा नं यु रा मे
सु खा नि सो ऽभु ङ्क्त सु खो रो धि
वृ तं हि रा ज्ञा मु रु द्ध वृ त्तम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.