तस्याभवत्सूनुरुदारशीलः
शिलः शिलापट्टविशालवक्षाः ।
जितारिपक्षोऽपि शिलीमुखैर्यः
शालिनतामव्रजदीड्यमानः ॥

अन्वयः AI तस्य उदारशीलः, शिलापट्टविशालवक्षाः, शिलः (नाम) सूनुः अभवत् । यः शिलीमुखैः जितारिपक्षः अपि ईड्यमानः (सन्) शालिनताम् अव्रजत् ।
सञ्जीविनीटीका (मल्लिनाथः) तस्येति॥ थस्य पारियात्रस्य। उदारशीलो महावृत्तः। शीलं स्वभावे सद्दृत्ते इत्यमरः (अमरकोशः ३.३.२३ ) । शिलापट्टविशालवक्षाः शिलः शिलाख्यः सूनुरभवत्। यः सूनुः शिलीमुखैर्बाणैः। अलिबाणौ शिलीमुखौ इत्यमरः (अमरकोशः ३.३.२३ ) । जितारिपक्षोऽपीड्यमानः स्तूयमानः सन्। शालीनतामधृष्टतां लज्जामव्रजदगच्छत्। स्यादधृष्टे तु शालीनः इत्यमरः (अमरकोशः ३.३.२३ ) शालीनकौपीने अधृष्टाकार्ययोः (अष्टाध्यायी ५.२.२० ) इति निपातः ॥
Summary AI Pariyatra had a son named Shila, who was of noble character and had a chest as broad as a rock slab. Although he had conquered his enemies with arrows, he showed modesty when praised.
सारांश AI पारियात्र के पुत्र शिल हुए, जिनका हृदय शिला के समान विशाल और चरित्र उदार था। शत्रुओं को बाणों से परास्त करने वाले वह राजा स्तुति किए जाने पर अत्यंत विनम्र हो जाते थे।
पदच्छेदः AI
तस्यतद् (६.१) his (Pariyatra's)
अभवत्अभवत् (√भू कर्तरि लङ् (परस्मै.) प्र.पु. एक.) was born
सूनुःसूनु (१.१) a son
उदारशीलःउदारशील (१.१) of noble character
शिलःशिल (१.१) Shila (by name)
शिलापट्टविशालवक्षाःशिलापट्टविशालवक्षस् (१.१) whose chest was as broad as a slab of rock
जितारिपक्षःजितअरिपक्ष (१.१) he who had conquered the faction of his enemies
अपिअपि although
शिलीमुखैःशिलीमुख (३.३) by arrows
यःयद् (१.१) who
शालिनताम्शालिनता (२.१) modesty
अव्रजत्अव्रजत् (√व्रज् कर्तरि लङ् (परस्मै.) प्र.पु. एक.) showed
ईड्यमानःईड्यमान (√ईड्+शानच्, १.१) being praised
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
स्या त्सू नु रु दा शी लः
शि लः शि ला ट्ट वि शा क्षाः
जि ता रि क्षो ऽपि शि ली मु खै र्यः
शा लि ता व्र दी ड्य मा नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.