पित्रा संवर्धितो नित्यं कृतास्त्रः सांपरायिकः ।
तस्य दण्डवतो दण्डः स्वदेहान्न व्यशिष्यत ॥

अन्वयः AI पित्रा नित्यम् संवर्धितः, कृतास्त्रः सांपरायिकः दण्डः दण्डवतः तस्य स्व-देहात् न वि-अशिष्यत ।
सञ्जीविनीटीका (मल्लिनाथः) पित्रेति॥ दण्डो दमः सैन्यं वा, तद्वतो दण्डवतो दण्डसंपन्नस्य तस्य राज्ञः पित्राकुशेन नित्यं संवर्धितः पुष्टः कृतास्त्रः शिक्षितास्त्रः। संपरायो युद्धम्। युद्धायत्योः संपरायः इत्यमरः (अमरकोशः ३.३.१५९ ) । तमर्हतीति सांपराथिकः। तदर्हति (अष्टाध्यायी ५.१.६३ ) इति ठक्प्रत्ययः। दण्डः सैन्यम्। दण्डो यमे मानमेदे लगुडे दमसैन्ययोः इति विश्वः। स्वदेहान्न व्यशिष्यत नाभिद्यत। स्वदेहेऽपि विशेषणानि योज्यानि। मूनबलं स्वदेहमिवारक्षदित्यर्थः ॥
Summary AI His army, constantly augmented by his father, well-trained in arms and fit for war, was not considered different from his own body by him, the wielder of the rod of justice.
सारांश AI पिता द्वारा पालित और युद्धकला में निपुण वे राजा न्याय के दंड को धारण करने वाले थे। उनकी सेना और न्याय व्यवस्था उनके अपने शरीर के अंगों के समान ही उनके अधीन और अभिन्न थी।
पदच्छेदः AI
पित्रापितृ (३.१) by his father
संवर्धितःसंवर्धित (सम्√वृध्+णिच्+क्त, १.१) nurtured
नित्यम्नित्यम् always
कृतास्त्रःकृतअस्त्र (१.१) trained in arms
सांपरायिकःसांपरायिक (१.१) fit for war
तस्यतत् (६.१) of him
दण्डवतःदण्डवत् (६.१) the wielder of the sceptre
दण्डःदण्ड (१.१) the army
स्वदेहात्स्वदेह (५.१) from his own body
not
व्यशिष्यतव्यशिष्यत (वि√शिष् भावकर्मणोः लङ् (आत्मने.) प्र.पु. एक.) was distinguished
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
पि त्रा सं र्धि तो नि त्यं
कृ ता स्त्रः सां रा यि कः
स्य ण्ड तो ण्डः
स्व दे हा न्न व्य शि ष्य
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.