परकर्मापहः सोऽभूदुद्यतः स्वेषु कर्मसु ।
आवृणोदात्मनो रन्ध्रं रन्ध्रेषु प्रहरन्रिपून् ॥

अन्वयः AI सः स्वेषु कर्मसु उद्यतः (सन्) पर-कर्म-अपहः अभूत् । (सः) रिपून् रन्ध्रेषु प्रहरन् आत्मनः रन्ध्रम् आवृणोत् ।
सञ्जीविनीटीका (मल्लिनाथः) परकर्मेति॥ स राजा परेषां कर्माणि सेतुवार्तादीन्यपहन्तीति परकर्मापहः सन्। अन्येष्वपि दृश्यते (अष्टाध्यायी ३.३.१०१ ) इत्यपिशब्दसामर्थ्याद्धन्तेर्डप्रत्ययः। स्वेषु कर्मसूद्यत उद्युक्तोऽभूत्। किंच, रिपून् रन्ध्रेषु प्रहरन्नात्मनो रन्ध्रं व्यसनातिकमावृणोत् संवृतवान्। अत्र मनुः(७।१०५)-नास्य च्छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु। गूहेत्कर्मं इवाङ्गानि रक्षेद्विवरमात्मनः ॥ इति ॥
Summary AI He was diligent in his own duties and thwarted the actions of his enemies. While striking at the enemies' weak points, he concealed his own.
सारांश AI वे अपने कार्यों में तत्पर रहकर दूसरों के आक्रमणों को विफल करते थे। उन्होंने अपनी कमियों को गुप्त रखा और शत्रुओं की कमजोरियों पर प्रहार करते हुए स्वयं को सुरक्षित रखा।
पदच्छेदः AI
परकर्मापहःपरकर्मअपह (१.१) one who thwarts the actions of others
सःतत् (१.१) he
अभूत्अभूत् (√भू कर्तरि लुङ् (परस्मै.) प्र.पु. एक.) became
उद्यतःउद्यत (उत्√यम्+क्त, १.१) diligent
स्वेषुस्व (७.३) in his own
कर्मसुकर्मन् (७.३) actions
आवृणोत्आवृणोत् (आ√वृ कर्तरि लङ् (परस्मै.) प्र.पु. एक.) he covered
आत्मनःआत्मन् (६.१) his own
रन्ध्रम्रन्ध्र (२.१) weakness
रन्ध्रेषुरन्ध्र (७.३) at the weak points
प्रहरन्प्रहरत् (प्र√हृ+शतृ, १.१) striking
रिपून्रिपु (२.३) enemies
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्मा हः सो ऽभू
दु द्य तः स्वे षु र्म सु
वृ णो दा त्म नो न्ध्रं
न्ध्रे षु प्र न्रि पून्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.