शक्येष्वेवाभवद्यात्रा तस्य शक्तिमतः सतः ।
समीरणसहायोऽपि नाम्भःप्रार्थी दवानलः ॥

अन्वयः AI शक्तिमतः सतः अपि तस्य यात्रा शक्येषु एव अभवत् । समीरण-सहायः अपि दव-अनलः अम्भः-प्रार्थी न (भवति) ।
सञ्जीविनीटीका (मल्लिनाथः) शक्येष्विति॥ शक्तिमतः शक्तिसंपन्नस्यापि सतस्तस्य राज्ञः शक्येषु शक्तिविषयेषु स्वस्माद्धीनबलेष्वेव विषये यात्रा दण्डयात्राऽभवत्। न तु समधिकेष्वित्यर्थः। तथा हि-समीरणसहायोऽपि दवानलोऽम्भः प्रार्थी जलान्वेषी न। दग्धुमिति शेषः। किंतु तृणकाष्ठादिकमेवान्विष्यतीत्यर्थः । अत्र कौटिल्यः- समज्यायोभ्यां संदधीत, हीनेन विगृह्णीयत् इति ॥
Summary AI Although he was powerful, his military expeditions were directed only against those who could be conquered. A forest fire, even with the wind as its ally, does not seek to consume water.
सारांश AI शक्तिशाली होते हुए भी वे केवल जीतने योग्य शत्रुओं पर ही प्रहार करते थे। वायु की सहायता पाकर भी दावानल जल को जलाने का व्यर्थ प्रयास नहीं करता।
पदच्छेदः AI
शक्येषुशक्य (७.३) on those who could be conquered
एवएव only
अभवत्अभवत् (√भू कर्तरि लङ् (परस्मै.) प्र.पु. एक.) was
यात्रायात्रा (१.१) expedition
तस्यतत् (६.१) his
शक्तिमतःशक्तिमत् (६.१) of the powerful one
सतःसत् (√अस्+शतृ, ६.१) being
समीरणसहायःसमीरणसहाय (१.१) having the wind as an ally
अपिअपि even though
not
अम्भःप्रार्थीअम्भस्प्रार्थिन् (१.१) one who seeks water
दवानलःदवअनल (१.१) a forest fire
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
क्ये ष्वे वा द्या त्रा
स्य क्ति तः तः
मी हा यो ऽपि
ना म्भः प्रा र्थी वा लः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.