कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम् ।
अतः सिद्धिं समेताभ्यामुभाभ्यामन्वियेष सः ॥

अन्वयः AI केवला नीतिः कातर्यम् (भवति), (केवलं) शौर्यम् श्वापद-चेष्टितम् (भवति) । अतः सः समेताभ्याम् उभाभ्याम् सिद्धिम् अन्वियेष ।
सञ्जीविनीटीका (मल्लिनाथः) कातर्यमिति॥ केवला शौर्यवर्जिता नीतिः कातर्यं भीरुत्वम्। शौर्यं केवलम् इत्यनुषञ्जनीयम्। केवलं नीतिरहितं शौर्यं श्वापदचेष्टितम्। व्याघ्रादिचेष्टाप्रायमित्यर्थः। व्याघ्रादयो वनचराः पशवः श्वापदा मताः इति हलायुधः। अतो हेतोः सोऽतिथिः समेताभ्यां संगताभ्यामुभाभ्यां नीति-शौर्याभ्यां सिद्धिं जयप्राप्तिम्। अन्वियेष गवेषितवान् ॥
Summary AI Policy alone is cowardice, and valor alone is the action of a beast. Therefore, he sought success through the combination of both.
सारांश AI बिना शौर्य के केवल नीति कायरता है और बिना नीति के केवल शौर्य पशुवत व्यवहार है। इसलिए उन्होंने सफलता के लिए नीति और शौर्य दोनों का संतुलित आश्रय लिया।
पदच्छेदः AI
कातर्यम्कातर्य (१.१) cowardice
केवलाकेवल (१.१) mere
नीतिःनीति (१.१) policy
शौर्यम्शौर्य (१.१) valor
श्वापदचेष्टितम्श्वापदचेष्टित (१.१) the action of a beast of prey
अतःअतः therefore
सिद्धिम्सिद्धि (२.१) success
समेताभ्याम्समेत (३.२) by the combined
उभाभ्याम्उभ (३.२) by both
अन्वियेषअन्वियेष (अनु√इष् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) sought
सःतत् (१.१) he
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
का र्यं के ला नी तिः
शौ र्यं श्वा चे ष्टि तम्
तः सि द्धिं मे ता भ्या
मु भा भ्या न्वि ये सः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.