अनित्याः शत्रवो बाह्या विप्रकृष्टाश्च ते यतः ।
अतः सोऽभ्यन्तरान्नित्याञ्षट्पूर्वमजयद्रिपून् ॥

अन्वयः AI यतः ते बाह्याः शत्रवः अनित्याः विप्रकृष्टाः च (भवन्ति), अतः सः पूर्वम् नित्यान् अभ्यन्तरान् षट् रिपून् अजयत् ।
सञ्जीविनीटीका (मल्लिनाथः) अनित्या इति॥ यतो बाह्याः शत्रवः प्रतिनृपा अनित्याः। द्विषन्ति स्निह्यन्ति चेत्यर्थः। किंच, ते बाह्या विप्रकृष्टा दूरस्थाश्च। अतः सोऽभ्यन्तरानन्तर्वर्तिनो नित्याञ्षड्रिपून्कामक्रोधादीन्। पूर्वमजयत्। अन्तःशत्रुजये बाह्या अपि न दुर्जया इति भावः ॥
Summary AI Because external enemies are transient and distant, he first conquered the six internal, permanent enemies (lust, anger, greed, delusion, pride, and envy).
सारांश AI बाहरी शत्रु अनिश्चित और दूर होते हैं, इसलिए उन्होंने सबसे पहले काम-क्रोध आदि छः आंतरिक शत्रुओं पर विजय प्राप्त की, जो सदैव निकट और घातक रहते हैं।
पदच्छेदः AI
अनित्याःअनित्य (१.३) transient
शत्रवःशत्रु (१.३) enemies
बाह्याःबाह्य (१.३) external
विप्रकृष्टाःविप्रकृष्ट (१.३) distant
and
तेतत् (१.३) they
यतःयतः because
अतःअतः therefore
सःतत् (१.१) he
अभ्यन्तरान्अभ्यन्तर (२.३) internal
नित्यान्नित्य (२.३) permanent
षट्षष् (२.३) six
पूर्वम्पूर्वम् first
अजयत्अजयत् (√जि कर्तरि लङ् (परस्मै.) प्र.पु. एक.) conquered
रिपून्रिपु (२.३) enemies
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नि त्याः त्र वो बा ह्या
वि प्र कृ ष्टा श्च ते तः
तः सो ऽभ्य न्त रा न्नि त्या
ञ्ष ट्पू र्व द्रि पून्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.