Loading data... On slow networks this could take a few minutes.
100%

वयोरूपविभूतीनामेकैकं मदकारणम् ।
तानि तस्मिन्समस्तानि न तस्योत्सिषिचे मनः ॥

अन्वयः AI वयः-रूप-विभूतीनाम् एक-एकम् मद-कारणम् (भवति) । तानि समस्तानि तस्मिन् (आसन्) । (तथापि) तस्य मनः न उत्सिषिचे ।
सञ्जीविनीटीका (मल्लिनाथः) वय इति॥ वयोरूपविभूतीनां यौवनसौन्दर्यैश्वर्याणां मध्य एकैकं मदकारणं मदहेतुः। तानि मदकारणानि तस्मिन्राज्ञि समस्तानि। मिलितानीति शेषः। तथापि तस्यातिथेर्मनो नोत्सिषिचे न जगर्व। सिञ्चतेः स्वरितेत्त्वादात्मनेपदम्। अत्र वयोरूपादीनां गर्वहेतुत्वान्मदस्य च मदिराकार्यत्वेनातत्कारकत्वात् मदशब्देन गर्वो लक्ष्यत इत्याहुः। उक्तं च-ऐश्वर्यरूपतारुण्यकुलविद्याबलैरपि। इष्टलाभादिना ह्येषामवज्ञा गर्व ईरितः। मदस्त्वानन्दसंमोहः संभेदो मदिराकृतः ॥ इति॥ अत एव कविनापि उत्सिषिचे इत्युक्तम्, नतु उन्ममाद इति ॥
Summary AI Each of age, beauty, and prosperity is a cause for pride. All of these were present together in him (King Atithi). Yet, his mind did not become arrogant.
सारांश AI युवावस्था, सौंदर्य और ऐश्वर्य में से प्रत्येक मद का कारण होता है, परन्तु इन सबके एक साथ होने पर भी उनके मन में किंचित् मात्र भी अहंकार उत्पन्न नहीं हुआ।
पदच्छेदः AI
वयोरूपविभूतीनाम्वयस्रूपविभूति (६.३) of age, beauty, and prosperity
एकैकम्एकैक (१.१) each one
मदकारणम्मदकारण (१.१) is a cause of pride
तानितत् (१.३) those
तस्मिन्तत् (७.१) in him
समस्तानिसमस्त (१.३) all together
not
तस्यतत् (६.१) his
उत्सिषिचेउत्सिषिचे (उत्√सिच् कर्तरि लिट् (आत्मने.) प्र.पु. एक.) became proud
मनःमनस् (१.१) mind
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
यो रू वि भू ती ना
मे कै कं का णम्
ता नि स्मि न्स स्ता नि
स्यो त्सि षि चे नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.