Loading data... On slow networks this could take a few minutes.
100%

वसिष्ठस्य गुरोर्मन्त्राः सायकास्तस्य धन्विनः ।
किं तत्साध्यं यदुभये साधयेयुर्न संगताः ॥

अन्वयः AI गुरोः वसिष्ठस्य मन्त्राः, धन्विनः तस्य सायकाः च (सन्ति)। संगताः उभये यत् न साधयेयुः तत् साध्यम् किम् (अस्ति)?
सञ्जीविनीटीका (मल्लिनाथः) वसिष्ठस्येति॥ गुरोर्वसिष्ठस्य मन्त्राः। धन्विनस्तस्यातिथेः सायकाः। इत्युभये संगताः सन्तो यत्साध्यं न साधयेयुस्तादृक्साध्यं किम्? न किंचिदित्यर्थः। तेषामसाध्यं नास्तीति भावः ॥
Summary AI There were the sacred formulas of his preceptor Vasishtha, and the arrows of him, the archer. What achievable goal is there that these two, when united, could not accomplish?
सारांश AI गुरु वसिष्ठ के मंत्र और उन धनुर्धर राजा के बाण—इन दोनों के संयोग से भला कौन सा कार्य सिद्ध नहीं हो सकता था?
पदच्छेदः AI
वसिष्ठस्यवसिष्ठ (६.१) of Vasishtha
गुरोःगुरु (६.१) of the preceptor
मन्त्राःमन्त्र (१.३) the sacred formulas
सायकाःसायक (१.३) the arrows
तस्यतद् (६.१) of him
धन्विनःधन्विन् (६.१) of the archer
किम्किम् (१.१) What
तत्तद् (१.१) that
साध्यम्साध्य (√साध्+ण्यत्, १.१) achievable thing
यत्यद् (२.१) which
उभयेउभय (१.३) both
साधयेयुःसाधयेयुः (√साध् +णिच् कर्तरि विधिलिङ् (परस्मै.) प्र.पु. बहु.) could achieve
not
संगताःसंगत (सम्√गम्+क्त, १.३) united
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सि ष्ठ स्य गु रो र्म न्त्राः
सा का स्त स्य न्वि नः
किं त्सा ध्यं दु ये
सा ये यु र्न सं ताः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.