Loading data... On slow networks this could take a few minutes.
100%

क्रीडापतत्रिणोऽप्यस्य पञ्जरस्थाः शुकादयः ।
लब्धमोक्षास्तदादेशाद्यथेष्टगतयोऽभवन् ॥

अन्वयः AI अस्य पञ्जर-स्थाः शुक-आदयः क्रीडा-पतत्रिणः अपि तद्-आदेशात् लब्ध-मोक्षाः (सन्तः) यथा-इष्ट-गतयः अभवन्।
सञ्जीविनीटीका (मल्लिनाथः) क्रीडेति॥ पञ्जरस्थाः शुकादयः। अस्यातिथेः क्रीडापतत्रिणोऽपि। किमुतान्य इति अपिशब्दार्थः। तदादेशात्तस्यातिथेः शासनात्। लब्धमोक्षाः सन्तो यथेष्टं गतिर्येषां ते स्वेच्छाचारिणोऽभवन् ॥
Summary AI By his command, even his pet birds, the parrots and others kept in cages, were set free and became able to fly wherever they wished.
सारांश AI राजा की आज्ञा पाकर पिंजरों में रहने वाले पालतू तोते आदि पक्षी भी बंधनमुक्त होकर स्वेच्छा से आकाश में उड़ने लगे।
पदच्छेदः AI
क्रीडापतत्रिणःक्रीडापतत्रिन् (१.३) pet birds
अपिअपि even
अस्यइदम् (६.१) his
पञ्जरस्थाःपञ्जरस्थ (१.३) caged
शुकादयःशुकआदि (१.३) parrots and others
लब्धमोक्षाःलब्धमोक्ष (१.३) having obtained freedom
तदादेशात्तद्आदेश (५.१) by his command
यथेष्टगतयःयथाइष्टगति (१.३) able to go wherever they wished
अभवन्अभवन् (√भू कर्तरि लङ् (परस्मै.) प्र.पु. बहु.) became
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
क्री डा त्रि णो ऽप्य स्य
ञ्ज स्थाः शु का यः
ब्ध मो क्षा स्त दा दे शा
द्य थे ष्ट यो ऽभ वन्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.