ते प्रीतमनसस्तस्मै यामाशिषमुदैरयन् ।
सा तस्य कर्मनिर्वृत्तर्दूरं पश्चात्कृता फलैः ॥

अन्वयः AI प्रीत-मनसः ते तस्मै याम् आशिषम् उदैरयन्, सा (आशीः) तस्य कर्म-निर्वृत्तेः फलैः दूरम् पश्चात्-कृता।
सञ्जीविनीटीका (मल्लिनाथः) त इति॥ प्रीतमनसस्ते स्नातकास्तस्मा अतिथये यामाशिषमुदैरयन् व्याहरन् साशीस्तस्यातिथेः कर्मनिर्वृत्तैः पूर्वपुण्यनिष्पन्नैः फलैः साम्राज्यादिभिर्दूरं दूरतः पश्चात्कृता। स्वफलदानस्य तदानीमनवकाशात्कालान्तरोद्वीक्षणं न चकारेत्यर्थः ॥
Summary AI The blessings which they, with pleased minds, uttered for him, were far surpassed by the fruits that resulted from his own actions.
सारांश AI संतुष्ट विद्वानों ने राजा को जो आशीर्वाद दिए, वे राजा के कर्मों से प्राप्त होने वाले महान फलों की तुलना में बहुत पीछे छूट गए।
पदच्छेदः AI
तेतद् (१.३) They
प्रीतमनसःप्रीतमनस् (१.३) with pleased minds
तस्मैतद् (४.१) to him
याम्यद् (२.१) which
आशिषम्आशिस् (२.१) blessing
उदैरयन्उदैरयन् (उद्√ईर् +णिच् कर्तरि लङ् (परस्मै.) प्र.पु. बहु.) uttered
सातद् (१.१) that
तस्यतद् (६.१) his
कर्मनिर्वृत्तेःकर्मन्निर्वृत्ति (६.१) of the accomplishment of deeds
दूरम्दूरम् far
पश्चात्कृतापश्चात्कृत (पश्चात्√कृ+क्त, १.१) left behind
फलैःफल (३.३) by the fruits
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ते प्री स्त स्मै
या मा शि मु दै यन्
सा स्य र्म नि र्वृ त्त
र्दू रं श्चा त्कृ ता लैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.