इत्थं नागस्त्रिभुवनगुरोरौरसं मैथिलेयं
लब्ध्वा बन्धुं तमपि च कुशः पञ्चमं तक्षकस्य ।
एकः शङ्कां पितृवधरिपोरत्यजद्वैनतेया
च्छान्तव्यालामवनिमपरः पौरकान्तः शशास ॥

अन्वयः AI इत्थम् नागः (कुमुदः) त्रिभुवन-गुरोः औरसम् मैथिलेयम् (कुशम्) बन्धुम् लब्ध्वा, च कुशः अपि तक्षकस्य पञ्चमम् तम् (कुमुदम् बन्धुम् लब्ध्वा), एकः (कुमुदः) पितृ-वध-रिपोः वैनतेयात् शङ्काम् अत्यजत्, अपरः पौर-कान्तः (कुशः) शान्त-व्यालाम् अवनिम् शशास ।
सञ्जीविनीटीका (मल्लिनाथः) इत्थमिति॥ इत्थं नागः कुमुदः। त्रयाणां भुवनानां समाहारस्त्रिभुवनम्। तद्धितार्थ- (अष्टाध्यायी २.१.५१ ) इत्यादिना तत्पुरुषः। अदन्तद्विगुत्वेऽपि पात्राद्यन्तत्वान्नपुंसकत्वम्। पात्राद्यन्तैरनेकार्थो द्विगुर्लक्ष्यानुसारतः इत्यमरः। तस्य गुरूरामः। तस्यौरसं धर्मपत्नीजं पुत्रम्। औरसो धर्मपत्नीजः(२।१२८) इति याज्ञवल्क्यः। मैथिलेयं कुशं बन्धुं लब्ध्वा कुशोऽपि च तक्षकस्य पञ्चमं पुत्रं तं कुमुदं बन्धुं लब्ध्वा। एकस्तयोरन्यतरः कुमुदः पितृवधेन रिपौर्वैनतेयाद्गरुडात्। गुरुणा वैष्णवांशेन कुशेन त्याजितक्रौर्यादिति भावः। शङ्कां भयमत्यजत्। अपरः कुशः शान्तव्यालां कुमुदाज्ञया वीतसर्पभयामवनिमत एव पौरकान्तः पौरप्रियः सन्। शशास ॥
Summary AI Thus, the Naga Kumuda, gaining Kusha—son of Sita and descendant of Vishnu—as a kinsman, and Kusha gaining Kumuda—a descendant of Takshaka—the former gave up his fear of Garuda, the ancestral enemy. The latter, beloved by his people, ruled an earth where serpents were now pacified.
सारांश AI इस प्रकार कुश को संबंधी बनाकर नागराज कुमुद गरुड़ के भय से मुक्त हो गए, और उधर प्रजाप्रिय राजा कुश ने नागों के उपद्रव से शांत हुई पृथ्वी पर सुखपूर्वक शासन किया।
पदच्छेदः AI
इत्थम्इत्थम् Thus
नागःनाग (१.१) the Naga
त्रिभुवनगुरोःत्रिभुवनगुरु (६.१) of the lord of the three worlds
औरसम्औरस (२.१) the legitimate son
मैथिलेयम्मैथिलेय (२.१) the son of the Maithili princess
लब्ध्वा having obtained
बन्धुम्बन्धु (२.१) as a kinsman
तम्तत् (२.१) him
अपिअपि also
and
कुशःकुश (१.१) Kusha
पञ्चमम्पञ्चम (२.१) the fifth
तक्षकस्यतक्षक (६.१) from Takshaka
एकःएक (१.१) the one
शङ्काम्शङ्का (२.१) fear
पितृवधरिपोःपितृवधरिपु (५.१) from the enemy who killed his ancestor
अत्यजत्अत्यजत् (अति√त्यज् कर्तरि लङ् (परस्मै.) प्र.पु. एक.) gave up
वैनतेयात्वैनतेय (५.१) from Garuda
शान्तव्यालाम्शान्तव्याल (२.१) where serpents are pacified
अवनिम्अवनि (२.१) the earth
अपरःअपर (१.१) the other
पौरकान्तःपौरकान्त (१.१) beloved of the citizens
शशासशशास (√शास् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) ruled
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
त्थं ना स्त्रि भु गु रो रौ सं मै थि ले यं
ब्ध्वा न्धुं पि कु शः ञ्च मं क्ष स्य
कः ङ्कां पि तृ रि पो त्य द्वै ते या
च्छा न्त व्या ला नि रः पौ का न्तः शा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.