इत्यूचिवानुपहृताभरणः क्षितीशं
श्लाघ्यो भवान्स्वजन इत्यनुभाषितारम् ।
संयोजयां विधिवदास समेतबन्धुः
कन्यामयेन कुमुदः कुलभूषणेन ॥

अन्वयः AI उपहृत-आभरणः कुमुदः "भवान् श्लाघ्यः स्वजनः" इति अनुभाषितारम् क्षितीशम् इति ऊचिवान् । (ततः) समेत-बन्धुः (सन्) कन्याम् कुल-भूषणेन अयेन विधिवत् संयोजयामास ।
सञ्जीविनीटीका (मल्लिनाथः) इतीति॥ इति पूर्वश्लोकोक्तम्। ऊचिवानुक्तवान्। ब्रुवः क्वसुः। उपहृताभरणः प्रत्यर्पिताभरणः कुमुदः। हे कुमुद! भवाञ्श्लाघ्यः स्वजनो बन्धुः। इत्यनुभाषितारमनुवक्तारं क्षितीशं कुशं समेतबन्धुर्युक्तबन्धुः सन् कन्यामयेन कन्यारूपेण कुलयोर्भूषणेन विधिवत्संयोजयामास। न केवलं तदीयमेव किंतु स्वकीयमपि भूषणं तस्मै दत्तवानिति ध्वनिः। आम्प्रत्ययानुप्रयोगयोर्व्यवधानं तु प्रागेव समाहितम् ॥
Summary AI Having thus spoken to the king—who had presented the ornament and replied, "You are a praiseworthy kinsman"—Kumuda, with his relatives gathered, duly united his daughter in marriage with Kusha, the ornament of his dynasty.
सारांश AI आभूषण लौटाने के बाद जब राजा ने कुमुद को अपना श्रेष्ठ संबंधी स्वीकार किया, तब नागराज कुमुद ने अपने परिजनों के साथ मिलकर कुल की शोभा बढ़ाने वाली अपनी बहन का विवाह विधिपूर्वक कुश के साथ कर दिया।
पदच्छेदः AI
इतिइति thus
ऊचिवान् having spoken
उपहृताभरणःउपहृत (उप√हृ+क्त)आभरण (१.१) who had presented the ornament
क्षितीशम्क्षितीश (२.१) to the king
श्लाघ्यः praiseworthy
भवान्भवत् (१.१) you
स्वजनःस्वजन (१.१) a kinsman
इतिइति thus
अनुभाषितारम् to him who replied
संयोजयामाससंयोजयामास (सम्√युज् +णिच् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) he united in marriage
विधिवत्विधिवत् according to rites
समेतबन्धुःसमेत (सम्√इ+क्त)बन्धु (१.१) with his relatives gathered
कन्याम्कन्या (२.१) the maiden
अयेनइदम् (३.१) with this one
कुमुदःकुमुद (१.१) Kumuda
कुलभूषणेनकुलभूषण (३.१) the ornament of his dynasty
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
त्यू चि वा नु हृ ता णः क्षि ती शं
श्ला घ्यो वा न्स्व त्य नु भा षि ता रम्
सं यो यां वि धि दा मे न्धुः
न्या ये कु मु दः कु भू णे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.