अमी शिरीषप्रसवावतंसाः
प्रभ्रंशिनो वारिविहारिणीनाम् ।
पारिप्लवाः स्रोतसि निम्नगायाः
शैवाललोलांश्छलयन्तिमीनान् ॥

अन्वयः AI वारि-विहारिणीनाम् प्रभ्रंशिनः अमी शिरीष-प्रसव-अवतंसाः निम्नगायाः स्रोतसि पारिप्लवाः (सन्तः) शैवाल-लोलान् मीनान् छलयन्ति ।
सञ्जीविनीटीका (मल्लिनाथः) अमी इति॥ वारिविहारिणीनामासां प्रभ्रंशिनो भ्रष्टा निम्नगायाः स्रोतसि पारिप्ववाश्चञ्चलाः। चञ्चलं तरलं चैव पारिप्लवपरिप्लवे इत्यमरः। अमी शिरीषप्रसवा एवावतंसाः कर्णभूषा शैवाललोलाञ्जलनीलिप्रियान्। जलनीली तु शैवालम् इत्यमरः। मीनांश्छलयन्ति प्रादुर्भावयन्ति। शैवालप्रियत्वाच्छिरीषेषु शैवालभ्रमात्प्रादुर्भवन्तीत्यर्थः ॥
Summary AI "These Shirisha-flower ear-ornaments, falling from the women sporting in the water and floating in the river's current, are deceiving the fish who are eager for moss (mistaking the flowers for it)."
सारांश AI जलक्रीड़ा करती स्त्रियों के केशों से गिरे हुए शिरीष के फूल नदी की धारा में तैरते हुए चंचल मछलियों को शैवाल का भ्रम कराकर उन्हें छलावा दे रहे हैं।
पदच्छेदः AI
अमीअदस् (१.३) These
शिरीष-प्रसव-अवतंसाःशिरीषप्रसवअवतंस (१.३) ear-ornaments made of Shirisha flowers
प्रभ्रंशिनःप्रभ्रंशिन् (१.३) falling
वारि-विहारिणीनाम्वारिविहारिणी (६.३) of the women sporting in the water
पारिप्लवाःपारिप्लव (१.३) floating
स्रोतसिस्रोतस् (७.१) in the current
निम्नगायाःनिम्नगा (६.१) of the river
शैवाल-लोलान्शैवाललोल (२.३) eager for moss
छलयन्तिछलयन्ति (√छल् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) deceive
मीनान्मीन (२.३) the fish
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
मी शि री प्र वा तं साः
प्र भ्रं शि नो वा रि वि हा रि णी नाम्
पा रि प्ल वाः स्रो सि नि म्न गा याः
शै वा लो लां श्छ न्ति मी नान्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.