अथोपशल्ये रिपुमग्नशल्य-
स्तस्याः पुरः पौरसखः स राजा ।
कुलध्वजस्तानि चलध्वजानि
निवेशयामास बली बलानि ॥

अन्वयः AI अथ बली, कुलध्वजः, रिपुमग्नशल्यः, पौरसखः सः राजा तस्याः पुरः उपशल्ये तानि चलध्वजानि बलानि निवेशयामास ।
सञ्जीविनीटीका (मल्लिनाथः) अथेति॥ अथ रिपुषु मग्नं शल्यं शङ्कु शरो वा यस्य सः। शल्यं शङ्कौ शरे वंशे इति विश्वः। पौराणां सखा पौरसखः। कुलस्य ध्वजश्चिह्नभूतो बली स राजा चलाशअचलन्तो वा ध्वजा येषां तानि। तानि बलानि सैन्यानि तस्याः पुरः पुर्या उपशल्ये ग्रामान्ते। ग्रामान्त उपशल्यं स्यात् इत्यमरः। निवेशयामास ॥
Summary AI Then, in the outskirts before that city (Ayodhya), the powerful king Kusha—who was the banner of his dynasty, a friend to his citizens, and one who had plunged the arrow (of sorrow) into his enemies—encamped his forces with their fluttering flags.
सारांश AI शत्रुओं को परास्त करने वाले राजा कुश ने अयोध्या के बाहरी भाग में अपनी विशाल सेना और ऊँची ध्वजाओं के साथ पड़ाव डाला।
पदच्छेदः AI
अथअथ Then
उपशल्येउपशल्य (७.१) in the outskirts
रिपुमग्नशल्यःरिपुमग्नशल्य (१.१) he who had plunged an arrow into his enemies
तस्याःतत् (६.१) of that (city)
पुरःपुरस् before
पौरसखःपौरसखि (१.१) a friend to the citizens
सःतत् (१.१) that
राजाराजन् (१.१) king
कुलध्वजःकुलध्वज (१.१) the banner of his dynasty
तानितत् (२.३) those
चलध्वजानिचलत्ध्वज (२.३) with fluttering flags
निवेशयामासनिवेशयामास (नि√विश् +णिच् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) encamped
बलीबलिन् (१.१) powerful
बलानिबल (२.३) forces
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
थो ल्ये रि पु ग्न ल्य
स्त स्याः पु रः पौ खः रा जा
कु ध्व स्ता नि ध्व जा नि
नि वे या मा ली ला नि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.